संदेश

ram nabami लेबल वाली पोस्ट दिखाई जा रही हैं

श्रीराम नवमी की प्रामाणिक और पौराणिक सत्य (संस्कृत में)

चित्र
श्रीराम नवमी   प्रामाणिक और पौराणिक सत्य (संस्कृत में)   श्री रामः   विष्णोः   सप्तमः अवतारः ।   "विष्णोरर्धं महाभागम्”   इत्येव उल्लेखः दृश्यते ।   रावणः   देवैः मरणम् न भविष्यति   इति वरं प्राप्तवान् आसीत् । तस्य संहारार्थं महाविष्णुः एव मनुष्यरूपेण जन्म प्राप्नोत् । सः एव श्रीरामचन्द्रः । चैत्रमासस्य शुक्लपक्षस्य नवम्यां तिथौ श्रीरामस्य जन्म अभवत् । तद्दिनमेव “श्रीरामनवमी” इति आचर्यते । “चैत्रे नवम्यां प्राक् पक्षे दिवा पुण्ये पुनर्वसौ । उदये गुरुगौरांश्चोः स्वोच्चस्थे ग्रहपञ्चके ॥ मेषं पूषणि सम्प्राप्ते लग्ने कर्कटकाह्वये । आविरसीत्सकलया कौसल्यायां परः पुमान् ॥ “  (निर्णयसिन्धुः)       नवमीतिथिना सह पुनर्वसुनक्षत्रम् अपि अस्ति चेत् तद्दिनम् अत्यन्तं प्रशस्तम् इति उच्यते ।  “ पुनर्वस्वर्क्षसंयुक्ता सा तिथिः सर्वकामदा”  (अगस्त्यसंहिता – ८-२८) । रामनवमी सर्वैरपि आचरणिया एव । यः नाचरति सः घोरे कुम्भीपाकनरके पच्यते इति वदन्ति शास्त्रवाक्यानि । “सर्वेषामप्ययं धर्मः भुक्तिमुक्त्योकसाधकः । यस्तु रामनवम्यान्तु भुङ्क्त...