संदेश

#Yoga #Sanskrit #Vedas #IndianPhilosophy #Adiyogi #Patanjali #YogaHistory #SanskritLiterature #yoga लेबल वाली पोस्ट दिखाई जा रही हैं

योगस्य अनादि-परम्परा

चित्र
 योगस्य अनादि-परम्परा: वेदेषु उद्भवः, इतिहासः दर्शनञ्च भूमिका (Introduction)      योगस्य परम्परा : वेदेषु मूलरूपेण यद्वा सूत्रात्मकरूपेण सर्वा विद्याः सन्ति। योगस्य वर्णनमपि सर्वासु वैदिकसंहितासु मूलरूपेण प्राप्यते। विश्वस्य सर्वे विद्वांसः स्वीकुर्वन्ति यद्वेदा विश्वस्य प्राचीनतमा ग्रन्थाः सन्ति।      भारतीयज्ञानपरम्परानुसारन्तु सर्गादौ परमकारूणिकेन परमेश्वरेण सर्वोपकारार्थम् अग्नि-वायुः, आदित्य, अङ्गिरा इत्येतेभ्यो ऋषिभ्योऽनुक्रमेण ऋग्वेदस्य, यजुर्वेदस्य, सामवेदस्य, अथर्ववेदस्य च ज्ञानं दत्तम्। इत्यं स्वतः सिद्धं यद् योगपरम्परा अपि सर्गसृजनेन सहैव प्रचलिता आसीत्। वेदेषु योगस्य बीजानि (Yoga in the Vedas) प्रस्तूयन्तेऽत्र केचन योगविषयका वेदमन्त्राः - "योगे योगे तवस्तरं वाजे वाजे हवामहे। सखाय इन्द्रमूतये।" (यजुर्वेदः) "अष्टचक्रा नव द्वारा देवानां पूरयोध्या।" (अथर्ववेदः)      योगविषयका एतादृक्षा बहवो मन्त्रा वेदेषु सन्ति। अत्र तु निदर्शनरूपेण कतिपयानां मन्त्राणामेवोल्लेखः कृतः। वेदेषु विस्तरेण योगसिद्धान्तानां चर्चा विद्यते। अस्मिन् विषय...