संदेश

#SanskritBlog #HealthTips #Ayurveda #Dinacharya #SanskritLiterature #HealthyLifestyle #YogaAndHealth #Shariramadyam #StudentMotivation #DailyRoutine #SanskritWisdom #HolisticHealth लेबल वाली पोस्ट दिखाई जा रही हैं

शरीरमाद्यं खलु धर्मसाधनम्: आरोग्यस्य मूलमन्त्राः

चित्र
 शरीरमाद्यं खलु धर्मसाधनम्: आरोग्यस्य मूलमन्त्राः १. प्रस्तावना (Introduction)      शास्त्रेषु सुस्पष्टम् उद्घोषितम् अस्ति- 'शरीरमाद्यं खलु धर्मसाधनम्' । अस्य अयमर्थः यत् जीवने धर्मः, अर्थः, कामः, मोक्षः च इति चतुर्विधपुरुषार्थानां प्राप्तये शरीरमेव प्रमुखं साधनम् अस्ति। यदि शरीरं रुग्णम्, शिथिलम् अथवा अस्वस्थं भवति, तर्हि मनुष्यः स्वस्य लक्ष्याणि प्राप्तुं न शक्नोति। अतः अस्मिन् संसारे स्वास्थ्यमेव सर्वश्रेष्ठं धनम् इति कथ्यते। विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति। २. दिनचर्यायाः शुभारम्भः (Start of Daily Routine) शरीरस्य स्वास्थ्यायाधोलिखिताः नियमाः अवश्यं पालनीयाः। ब्राह्मे मुहूर्ते जागरणम्: सर्वतः प्रथमं स्वस्थेन मनुष्येण ब्राह्मे मुहूर्ते (सूर्योदयात् १.५ होरा पूर्वम्) उत्थातव्यम्। अस्मिन् समये वातावरणं प्रदूषणरहितं भवति तथा च ओजोन-वायोः प्राचुर्यं भवति। उषःपानम्: शय्यात्यागानन्तरं विना मुखप्रक्षालनं ताम्रपात्रे स्थितं जलं पातव्यम्। अनेन उदररोगाः नश्यन्ति। दन्तधावनं मुखशुद्धिः च: ततः शौचादिकं निवृत्तं कृत्वा नियमितरूपेण दन्तधावनेन कूर्चिकया वा द...