आगमनविधिः (व्याकरण शिक्षणपद्धति)

आगमनविधिः



आगमनविधिः

  • विविधानि उदाहरणानि प्रस्तूय ततो नियमनिर्धारणम् एव आगमनम् 
  • अस्मिन् विधौ अध्यापकः छात्राणां पूर्वज्ञानं परीक्षणं कृत्वा लीलया सामान्यव्यावहारिकानि उदाहरणानि प्रस्तौति। 
  • जोसेफ- लेण्डन् महोदयः प्रतिपादयति यत्- यदि छात्राणां पुरतः बहुनि उदाहरणानि, तत्त्वानि, वस्तूनि वा अस्माभिः प्रस्तूयन्ते, ततः परं नियमाश्च निर्धार्यन्ते, तर्हि आगमनविधिरनुसर्यत इत्यर्थः। 
  • इयम् एका मनोवैज्ञानिकी पद्धतिः। 
  • अनया पद्धत्या सर्वासु भाषासु मनोवैज्ञानिकरीत्या व्याकरणम् अध्यापयितुं शक्यते। 
  • लक्ष्यं प्रदश्य लक्षणपरिकल्पन्नाम आगमनम्। 
  • प्रयोगप्रामाण्य- वलोक्य उदाहरणानां साहाय्येन सामान्यीकृतस्य नियमस्य निर्धारणमेव आगमनविधिरिति। 
  • तत् सम्बन्धिनी तत्त्वानि उदाहरणानि वा निरीक्ष्य, तुलनां वर्गीकरणं च विधाय स्वयमेव नियमानां निर्धारणं छात्राः कुर्युः। 
  • अत्र विधौ ज्ञातादज्ञातं प्रति, विशेषात् सामान्यं प्रति, स्थूलात् सूक्ष्म प्रति इत्यादीनि शिक्षणसूत्राणि अन्तर्निहितानि वर्तन्ते। 
  • आङ्ग्लपदेन प्दकनबजपअम डमजीवक इति उच्यते। 
  • समानधर्मसहितपदसमूहान् समानवर्गेषु वर्गीकृत्य छात्राणां साहाय्येन तानि श्यामफलके लेखनीयानि।


यथा-

  1. नर+इन्द्रः = नरेन्द्रः,
  2. देव+इन्द्रः = देवेन्द्रः,
  3. लङ्का+ईश:=लङ्केशः,
  4. पुरुष+ उत्तम:=पुरुषोत्तमः,
  5. यथा+उचितम्= यथोचितम्,
  6. महान+ऋषिः=महर्षिः,


  • अत्र प्रथमपादस्थान्ते विद्यमान अज्वर्णः क? 
  • द्वितीयपादस्यादौ विद्यमान अज्वर्णः क इति प्रष्टव्यः। 
  • प्रतिपूर्वपदस्यान्ते ह्रस्व/दीर्घ अकारः स्यात्, प्रत्युत्तरपदस्य आदिमवर्ण अज्वर्णेषु कोऽपि वर्णः स्यात्। 
  • (अ/आ+इ/ई=ए, अ/आ+उ/ऊ=ओ, अ/आ+ऋ/ऋ=अर्) ह्रस्वदीर्घ अकारस्य ह्रस्वदीर्घ इ, उ, ऋ वर्णाः परतो भवन्ति चेत् क्रमशः ए, ओ, अर् आदेशाः भवन्ति, एतदपि छात्रैः स्वयं निष्कासनीयम्।


 आगमनविधेः सोपानानि

  • उदाहरणप्रस्तावः - छात्राणां पुरतः समानोदाहरणानि शिक्षकः प्रस्तूयान्। 
  • व्याकरणशिक्षणावसरे अध्यापकः गणेशः, छात्रोपस्थितिः, महर्षिः शब्दान् प्रस्तौति।
  •  छात्राः सावधानेन उदाहरणानि शृण्वन्ति, पश्यन्ति, पठन्ति च।


निरीक्षणम् -

  •  प्रस्तुततत्त्वानां तुलनात्मकं निरीक्षणमेव द्वितीयं पदं भवति। 
  • प्रस्तुतोदाहरणे छात्राः विश्लिष्य विवेचयन्ति। 
  • छात्राः उदाहरण- प्रस्तावसन्दर्भित उदाहरणानि दृष्ट्वा तेषु कुत्र साम्यं, कुत्र वैषम्यं इति दृष्ट्वा तौलनं कुर्वन्ति। 
  • अपि च प्रति पदानां सन्धिविच्छेदः कथं भवतीति छात्राः स्वयं प्रयासः कृत्वा प्रति पदं निरीक्ष्यन्ते। 
  • मध्ये कदाचित् अध्यापकस्य सहयोगमपि स्वीकुर्वन्ति।


नियमनिर्धारणम्

  • तत्त्वानां निरीक्षणात्परं नियमपरिकल्पन्नाम तृतीयसोपानम्। 
  • पूर्वोक्तान् शब्दान् विच्छिद्य नियम परिकल्पयन्ति। 
  • अकार-आकाराभ्यां सह इकार-ईकारयोः मेलनेन एकार एकादेशः भवति। 
  • एवं अकार- आकाराभ्यां सह उ-ऊकारयोः मेलनेन ओकारः भवति। 
  • तथा अकार-आकाराभ्यां सह ऋकारस्य मेलनेन अरु इति भवित इति नियम निर्धारयन्ति।  


परीक्षणम् - 

  • निर्धारितस्य नियमस्य लक्ष्ये पुनः परीक्षणमेव चतुर्थसोपानम्। 
  • यथा- उपेन्द्रः, गंगोदकम्, राजर्षिः, इत्यादयः नवोदाहरणैः स्वीकृतं नियमं परीक्ष्य प्रमाणयन्ति।


 

अध्यापकस्य योगदानम् –

(1) अध्यापक अस्पष्टानि, सन्देहपूर्णानि, उदाहरणानि न उपस्थापयेत्।

(2) सरलया भाषया उदाहरणानि छात्राणां पुरत उपस्थापयेत्।

(3) नियमानां चिन्तने, अन्वेषणे च छात्राणां सहकुर्यात्।

(4) प्रश्नोत्तरप्रणालीमाश्रित्य उदाहरणानि उपस्थापयेत्।

(5) अध्यापक: मार्गदर्शक: भूत्वा छात्रान् प्रेरयेत्।

(6) अध्यापकः स्वयं सक्रियो भूत्वा छात्रान् नियमनिरूपणे प्रोत्साहयेत्।

(7) तत अध्यापकः प्रामाणिकतया नियमनिरूपणं कुर्यात्।

(8) यदि केचन छात्रा उदाहरणेषु, नियमचिन्तने, अन्वेषणे निरूपणे वा सन्दिहानाः भवन्ति, तर्हि अध्यापकः सावधानेन तान् वारं वारं बोधयेत्।

(9) पुन अध्यापकः सूत्रं स्पष्टतया बोधयेत्।

(10) अन्ते पुन उदाहरणानि प्रस्तोतव्यानि। अपि च छात्रान् उदाहरणानि प्रस्तौतुम् अवसरः देयानि भवन्ति। तेन छात्राणां नियमनिरूपणादिषु लब्धं ज्ञानं सुदृढं भवति।


 • गुणाः -

(१) छात्राः सूत्राणि सूत्रार्थानि च स्वयं जानीयुः।

(२) सूत्रनिर्माणं भरिभाषानिर्माणं च स्वयं क्रियते। अतः ज्ञानं वास्तविक, सदढं, सशक्तं स्थिरं च भवति। विषयं बहकालपर्यन्तं विस्मर्तुमवकाशो नास्ति।

(३) सूत्राणि परिभाषाः च स्वयं निर्मिता इति हेतोः कण्ठस्थीकरणस्य आवश्कता नास्ति।

(४) उदाहरणान्याधारीकृत्य व्याकरणाध्यापनं प्रचलेत्।

(५) अनेन व्याकरणाध्ययने छात्रा अभिरुचिं प्रदर्शयेयुः।

(६) स्वयं कृते अधिकतया प्राधान्यं भवेत्।

(७) छात्रैः प्राप्तं ज्ञानं स्थिरं भवति, चिरं च तिष्ठति।

(८) छात्राणां आत्मविश्वासः वर्धते।  

(९) छात्रा अधिकतया सक्रियाः भवन्ति।  

(१०)शिक्षणप्रक्रम अधिकप्रभावशाली वर्तते।

(११)सन्दर्भानुसारं व्याकरणमधीयते।  

(१२)स्मरणशक्तेः, तर्कशक्तेश्च वर्धनं भवति।

(१३)छात्राः स्वतः ज्ञानं सम्पादयन्ति।


• दोषाः -

(1) अध्यापकानां कृते क्लेश अधिकः भवेत्।  

(2) अस्मिन् विधौ शास्त्रगतान्युदाहरणानि ज्ञातुमवकाशो नास्ति।  

(3) व्याकरणशिक्षणे समयः बह्वपेक्षितः भवेत्।  

(4) छात्राणां सम्बद्धोदाहरणानामनुस्मरणमपि कदाचित् क्लेशः भवेत्।  


अस्य विधेः प्रयोगः -

  • अनेन विधिना अध्यापनाय आदौ कश्चन व्याकरणांशः स्वीकरणीयः। 
  • उदाहरणतया गुणसन्धिरस्ति। गुणसन्धिगतांशाः कथमध्यापनीया इति प्रश्नाः समुदेति चेत् तस्य विवरणमत्र प्रस्तूयते। 
  • पाठ्यांशे समागतानि गुणसन्धिगतानि उदाहरणानि छात्रै अनुस्मरणीयानि। 
  • तेषु उदाहरणेषु समानधर्मसहितपदसमूहान् समानवर्गेषु वर्गीकृत्य श्यामफलके लेखनीयानि। 
  • तदनन्तरं तान्युदाहरणानि छात्रैः परिशीलनीयानि। 
  • अन्तत उदाहरणानि विश्लिष्य छात्रेभ्यः निष्कर्षाः सम्पादनीयाः। 
  • निष्कर्षाणामाधारेण स्वयं छात्रैः सूत्रं निष्कासनीयम्। 
  • यदि सूत्रनिर्माणे छात्रा असमर्थाः भवन्ति तर्हि अध्यापकेन कश्चन मार्गः प्रदर्शनीयः। 
  • समानधर्मसहितपदसमूहान् समानवर्गेषु वर्गीकृत्य छात्राणां साहाय्येन तानि श्यामफलके लेखनी उदाहरणं यथा एवं श्यामफलके उपर्युक्तानि उदाहरणानि छात्राणां साहाय्येन विलिख्य तेषां विभजनं योजनञ्च कारयित्वा विश्लेष्य छात्रेभ्यः कश्चन निष्कर्षः सम्पादनीयः। 
  • निष्कर्षसम्पादनाय पथप्रदर्शनम् इत्थं स्यात्। 
  • एकैकस्मिन् समूहे प्रथमपदस्यान्ते विद्यमान अज्वर्णः कः। 
  • द्वितीयपदस्यादौ विद्यमान अज्वर्णः कः? इति प्रष्टव्यः। 
  • प्रतिपूर्वपदस्यान्ते ह्रस्व अथवा दीर्घ अकारः स्यात्। 
  • प्रत्युत्तरपदस्य आदिमवर्ण अज्वर्णेषु कोऽपि वर्णः स्यात्। 
  • पूर्वोदाहरणानां विश्लेषणेन वक्ष्यमाण अंशाः ज्ञाताः स्युः।

  1. अ/आ + इ/ई = ए
  2. अ/आ + उ/ऊ = ओ
  3. अ/आ + ऋ/ऋ = अर्
  4. अ/आ+लु = अल्

एवम् उदाहरणानि विश्लेष्य स्वेषु वाक्येषु निष्कर्षमित्थं लिखेयुः।


• सूत्रम्

  • आदगुणः, उरणरपरः इति सूत्रद्वयं पाणिनिमुनिना गुणसन्धि- विषये उक्तं वर्तते। 
  • अवर्णादचि परे पूर्वपरयोः स्वरयोः एकः गुणादेशः स्यात्। इति

टिप्पणियाँ

एक टिप्पणी भेजें

इस ब्लॉग से लोकप्रिय पोस्ट

Indian Army Religious Teacher (RT JCO) 2027: Eligibility for Sanskrit Students

OAV Khordha Recruitment 2026: TGT Sanskrit & Other Teaching Posts | OAV ଖୋର୍ଦ୍ଧା ନିଯୁକ୍ତି ୨୦୨୬

Language Skills (part - 3) Reading Skills