शूद्रकः

शूद्रकः

शूद्रकः (Shudraka) नाट्यकारः आसीत्। अस्य जन्मादि विषये सप्रमाणयुक्तयः न लब्धाः । किन्तु सः त्रीणि नाटकानि अरचयत्। ते मृच्छकटिकम्वीणावासवदत्तापद्मप्रभृत्तकम् (भाणम्) च। मृच्छकटिकनाटकस्य प्रस्तावनाऽधारेण वक्तव्ये अयम् श्लोकः दृश्यते, यथा-

द्विरदेन्द्रगतिः चकोरनेत्रः, परिपीर्णेन्दुमुखः सुविग्रहश्च ।
द्विजमुख्यतमः कविर्बभूव, प्रथितः शूद्रक इत्यगाधसत्वः ॥

अत्र द्विजमुख्यतमः इति पदस्य क्षत्रजातिश्रेष्ठः इति व्याख्यायाम् निरुक्तम् । शिवप्रसादेन अस्मै दृष्टिर्लब्धा, तथा च अयम् अश्वमेधयज्ञं चकार, दशादिकैशतवर्षम् उषित्वा स्वपुत्राय राज्यं दत्त्वा स्वर्गलोकं जगाम।

"ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां
ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ।।"

अस्यैव नाटकस्य प्रस्तावनायाः तृतीयश्लोके अयं ‘द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्तवः इति दत्तमस्ति। पुनः पञ्चमश्लोके ‘क्षितिपालः किल शूद्रको बभूव’ इति पठ्यते शूद्रक इति नाम अभीरराजस्य इन्द्रगुप्तस्य पिकनिकरः अपि आसीत्।

देशः कालश्च

अस्य कालनिर्णये बहवो मतभेदाः –

  • स्कन्दपुराणमतेन विक्रमादित्यात् पूर्ववर्त्ती नृपोऽयम् ।
  • अनेके विद्वांसो राज्ञा शिमुकेनान्ध्रभृत्यकुलोत्पन्नेन सहास्याभेदं कल्पयन्तोऽस्य समयं विक्रमप्रथमशतकं कल्पयन्ति ।
  • वामनः स्वग्रन्थे शूद्रकं स्मरति । वामनपूर्ववर्त्ती दण्डी स्वीये काव्यादर्शे ‘लिम्पतीव तमोऽङ्गानीति शूद्रकपद्यमुध्दरति । एतेन सप्तमशतकपूर्ववर्त्तित्वमायाति ।
  • मृच्छकटिकस्य नवमेऽङ्के बृहस्पतिर्मङ्गलविरोधितया स्मर्थते, वराहमिहिरश्च तयोर्मैत्रीमाह । एतेनास्य ग्रन्थस्य वराहमिहिरकालपूर्वभवत्वे सिध्दे वराहमिहिरस्य षष्ठशातकोत्पन्नतायां प्रतीतायां शूद्रकस्य तत्पूर्वकालिकत्वं मन्तव्यम् ।

चन्द्रबली पाण्डेयोऽमून्याश्रीत्य शूद्रकं वसिष्ठीपुत्रं श्रीपुलुमाविनाऽभिन्नं प्रतीत्य १३०-१५५ ख्रीष्टाब्दकालिकं प्रमापयति ।

अवन्ती-उज्जयिनी, अस्य वासस्थानम् इति केचन वदन्ति । अयम् राजा आसीत् । स्कान्दपुराणस्य "कुमारिकाखण्डे" उक्तप्रकारेण अयं कलिवर्षाणां ३२९०तमे वत्सरे अर्थात् क्रि.श.१९०तमे जनिम् अलभत इति महाराष्ट्रभाषायाः "संस्कृतकविचरित" ग्रन्थे निर्दिष्टम् । किन्तु अयं कस्य पुत्रः? का पुनः एतस्य माता इत्यादिविचाराः न लभ्यन्ते ।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Indian Army Religious Teacher (RT JCO) 2027: Eligibility for Sanskrit Students

OAV Khordha Recruitment 2026: TGT Sanskrit & Other Teaching Posts | OAV ଖୋର୍ଦ୍ଧା ନିଯୁକ୍ତି ୨୦୨୬

Language Skills (part - 3) Reading Skills