Aranya Kanda Chapter [Sarga] 9
Aranya Kanda
Chapter [Sarga] 9
सुतीक्ष्णेन अभ्यनुज्ञातम् प्रस्थितम् रघु नन्दनम् |
हृद्यया स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् || ३-९-१
अधर्मम् तु सुसूक्ष्मेण विधिना प्राप्यते महान् |
निवृत्तेन च शक्यो अयम् व्यसनात् कामजाद् इह || ३-९-२
त्रीणि एव व्यसनानि अत्र कामजानि भवन्ति उत |
मिथ्या वाक्यम् तु परमम् तस्मात् गुरुतरा उभौ || ३-९-३
पर दार अभिगमनम् विना वैरम् च रौद्रता |
मिथ्या वाक्यम् न ते भूतम् न भविष्यति राघव || ३-९-४
तव नास्ति मनुष्येन्द्र न च आभूत् ते कदाचन || ३-९-५
मनस्यपि तथा राम न च एतत् विद्यते क्वचित् |
स्व दार निरतः च एव नित्यम् एव नृपात्मज || ३-९-६
स्व दार निरतः च एव नित्यम् एव नृपात्मज || ३-९-६
धर्मिष्टः सत्य सन्धः च पितुः निर्देश कारकः |
त्वयि धर्मः च सत्यम् च त्वयि सर्वम् प्रतिष्टितम् ||३-९-७तच्च सर्वम् महाबाहो शक्यम् वोढुम् जितेइन्द्रियैः |
तव वश्य इन्द्रियत्वम् च जानामि शुभदर्शन || ३-९-८
तव वश्य इन्द्रियत्वम् च जानामि शुभदर्शन || ३-९-८
तृतीयम् यद् इदम् रौद्रम् पर प्राण अभिहिंसनम् |
निर्वैरम् क्रियते मोहात् तत् च ते समुपस्थितम् || ३-९-९
निर्वैरम् क्रियते मोहात् तत् च ते समुपस्थितम् || ३-९-९
प्रतिज्ञातः त्वया वीर दण्डकारण्य वासिनाम् |
ऋषीणाम् रक्षणार्थाय वधः संयति रक्षसाम् || ३-९-१०
एतन् निमित्तम् च वनम् दण्डका इति विश्रुतम् |
प्रस्थितः त्वम् सह भ्रात्रा धृत बाण शराअसनः || ३-९-११
ततः त्वाम् प्रस्थितम् दृष्ट्वा मम चिन्त आकुलम् मनः |
त्वत् वृत्तम् चिन्तयन्त्या वै भवेत् निःश्रेयसम् हितम् || ३-९-१२
न हि मे रोचते वीरः गमनम् दण्डकान् प्रति |
कारणम् तत्र वक्ष्यामि वदन्त्याः श्रूयताम् मम || ३-९-१३
त्वम् हि बाण धनुष्पाणिः भ्रात्रा सह वनम् गतः |
दृष्ट्वा वन चरान् सर्वान् कच्चित् कुर्याः शर व्ययम् || ३-९-१४
दृष्ट्वा वन चरान् सर्वान् कच्चित् कुर्याः शर व्ययम् || ३-९-१४
क्षत्रियाणाम् इह धनुर् हुताशस्य इन्धनानि च |
समीपतः स्थितम् तेजो बलम् उच्छ्ह्रयते भृशम् || ३-९-१५
समीपतः स्थितम् तेजो बलम् उच्छ्ह्रयते भृशम् || ३-९-१५
पुरा किल महाबाहो तपस्वी सत्य वाक् शुचिः |
कस्मिन् चित् अभवत् पुण्ये वने रत मृग द्विजे || ३-९-१६
कस्मिन् चित् अभवत् पुण्ये वने रत मृग द्विजे || ३-९-१६
तस्य एव तपसो विघ्नम् कर्तुम् इन्द्रः शचीपतिः |
खड्ग पाणिः अथ आगच्छ्हत् आश्रमम् भट रूप धृक् || ३-९-१७
खड्ग पाणिः अथ आगच्छ्हत् आश्रमम् भट रूप धृक् || ३-९-१७
तस्मिन् तत् आश्रम पदे निहितः खड्ग उत्तमः |
स न्यास विधिना दत्तः पुण्ये तपसि तिष्ठतः || ३-९-१८स तत् शस्त्रम् अनुप्राप्य न्यास रक्षण तत्परः |
वने तु विचरति एव रक्षन् प्रत्ययम् आत्मनः || ३-९-१९
वने तु विचरति एव रक्षन् प्रत्ययम् आत्मनः || ३-९-१९
यत्र गच्छ्हति उपादातुम् मूलानि च फलानि च |
न विना याति तम् खड्गम् न्यास रक्षण तत्परः || ३-९-२०
नित्यम् शस्त्रम् परिवहन् क्रमेण स तपोधनः |
चकार रौद्रीम् स्वाम् बुद्धिम् त्यक्त्वा तपसि निश्चयम् || ३-९-२१
ततः स रौद्र अभिरतः प्रमत्तो अधर्म कर्षितः |
तस्य शस्त्रस्य संवासात् जगाम नरकम् मुनिः || ३-९-२२
तस्य शस्त्रस्य संवासात् जगाम नरकम् मुनिः || ३-९-२२
एवम् एतत् पुरा वृत्तम् शस्त्र संयोग कारणम् |
अग्नि संयोगवत् हेतुः शस्त्र संयोग उच्यते || ३-९-२३
अग्नि संयोगवत् हेतुः शस्त्र संयोग उच्यते || ३-९-२३
स्नेहात् च बहुमानात् च स्मारये त्वाम् न शिक्षये |
न कथंचन सा कार्या गृहीत धनुषा त्वया || ३-९-२४
न कथंचन सा कार्या गृहीत धनुषा त्वया || ३-९-२४
बुद्धिः वैरम् विना हन्तुम् राक्षसान् दण्डक आश्रितान् |
अपराधम् विना हन्तुम् लोको वीर न कामये || ३-९-२५
अपराधम् विना हन्तुम् लोको वीर न कामये || ३-९-२५
क्षत्रियाणाम् तु वीराणाम् वनेषु नियतात्मनाम् |
धनुषा कार्यम् एतावत् आर्तानाम् अभिरक्षणम् || ३-९-२६
धनुषा कार्यम् एतावत् आर्तानाम् अभिरक्षणम् || ३-९-२६
क्व च शस्त्रम् क्व च वनम् क्व च क्षात्रम् तपः क्व च |
व्याविद्धम् इदम् अस्माभिः देश धर्मः तु पूज्यताम् || ३-९-२७तदार्य कलुषा बुद्धिः जायते शस्त्र सेवनात् |
पुनर् गत्वात् तत् अयोध्यायाम् क्षत्र धर्मम् चरिष्यसि || ३-९-२८
पुनर् गत्वात् तत् अयोध्यायाम् क्षत्र धर्मम् चरिष्यसि || ३-९-२८
अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोः मम |
यदि राज्यम् हि संन्यस्य भवेत् त्वम् निरतो मुनिः || ३-९-२९
यदि राज्यम् हि संन्यस्य भवेत् त्वम् निरतो मुनिः || ३-९-२९
धर्मात् अर्थः प्रभवति धर्मात् प्रभवते सुखम् |
धर्मेण लभते सर्वम् धर्म सारम् इदम् जगत् || ३-९-३०
धर्मेण लभते सर्वम् धर्म सारम् इदम् जगत् || ३-९-३०
आत्मानम् नियमैः तैः तैः कर्षयित्वा प्रयत्नतः |
प्राप्यते निपुणैः धर्मो न सुखात् लभते सुखम् || ३-९-३१
प्राप्यते निपुणैः धर्मो न सुखात् लभते सुखम् || ३-९-३१
नित्यम् शुचि मतिः सौम्य चर धर्मम् तपो वने |
सर्वम् हि विदितम् तुभ्यम् त्रैलोक्यम् अपि तत्त्वतः || ३-९-३२
सर्वम् हि विदितम् तुभ्यम् त्रैलोक्यम् अपि तत्त्वतः || ३-९-३२
स्त्री चापलात् एतत् उदाहृतम् मे
धर्मम् च वक्तुम् तव कः समर्थः |
धर्मम् च वक्तुम् तव कः समर्थः |
विचार्य बुद्ध्या तु सह अनुजेन
यत् रोचते तत् कुरु म अचिरेण || ३-९-३३
यत् रोचते तत् कुरु म अचिरेण || ३-९-३३
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे नवमः सर्गः
टिप्पणियाँ
एक टिप्पणी भेजें