Abhigyanshakuntalam (part 1)

अभिज्ञानशाकुंतलम्



प्रथमोऽङ्कः
 


या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री

ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।

यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः

प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥१॥


(नान्द्यन्ते )

सूत्रधारः -- ( नेपथ्याभिमुखमवलोक्य )

आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् ।

( प्रविश्य )

नटी - आर्यपुत्र इयमस्मि ।

सूत्रधारः -- आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुंतलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।

नटी -- सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते ।

सूत्रधारः -- आर्ये कथयामि ते भूतार्थम् ।

आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।

बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः॥२॥


नटी -- आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु ।

सूत्रधारः -- किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् ।

सम्प्रति हि -

सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः ।

प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः॥३॥


नटी -- तथा ।

( इति गायति )

ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।

अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि॥४॥

100 questions and answers related to Abhigyan Shakuntalam - click here

सूत्रधारः -- आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः ।

नटी -- नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुंतलं नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति ।

सूत्रधारः -- आर्ये सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया तत् । कुतः ।

तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।

एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा॥५॥


( इति निष्क्रान्तौ )

( प्रस्तावना )

( ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च)

सूतः -- ( राजानं मृगं चावलोक्य ) आयुष्मन् ।

कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके ।

मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम्॥६॥


राजाः -- सूत दूरममुना सारङ्गेण वयमाकृष्टाः । अयं तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः ।

पुनरिदानीमपि ग्रीवाभङ्गभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः

पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।

दर्भैण्रर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा

पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्याम् प्रयाति॥७॥

( सविस्मयम् )

सूतः -- आयुष्मन् उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्यमन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । सम्प्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति ।

राजाः -- तेन हि मुच्यन्तामभीषवः ।

सूतः -- यदाज्ञापयत्यायुष्मान् ।

100 questions and answers related to Abhigyan Shakuntalam - click here

( रथवेगं निरूप्य )

आयुष्मन्पश्य पश्य ।

मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मौद्धतैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः॥८॥


राजाः -- सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि ।

यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विछिन्नं भवति कृतसंधानमिव तत् ।
प्रकृत्या यद्वक्त्रं तदपि समरेखं नयनयोर्न
मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथज्जवात्॥९॥


सूत पश्यैनं व्यापद्यमानम् ।

( इति शरसंधानं नाटयति )

( नेपथ्ये )

भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।

सूतः -- ( आकर्ण्यावलोक्य च ) आयुष्मनस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः ।

राजाः -- ( ससम्भ्रमम् ) तेन हि प्रगृह्यन्तां वाजिनः ।

सूतः -- तथा ।

( इति रथं स्थापयति )

(ततः प्रविशत्यात्मनातृतीयो वैखानसः )

वैखानसः -- ( हस्तमुद्यम्य ) राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।

न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि
मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं क्व च
निशितनिपाता वज्रसाराः शरास्ते॥१०॥

तत्साधुकृतसंधानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि॥११॥

100 questions and answers related to Abhigyan Shakuntalam - click here

राजाः -- एष प्रतिसम्हृतः । ( इति यथोक्तं करोति )

वैखानसः -- सदृशमेतत् पुरुवंशप्रदीपस्य भवतः ।

जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।

पुत्रमेवङ्गुणोपेतं चक्रवर्तिनमाप्नुहि॥१२॥


इतरौ -- ( बाहू उद्यम्य ) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।

राजाः -- ( सप्रणामम् ) प्रतिगृहीतं ब्राह्मणवचनम् ।

वैखानसः -- राजन् समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च ।

रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य ।

ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति॥१३॥

राजाः -- अपि संनिहितोऽत्र कुलपतिः ।

वैखानसः -- इदानीमेव दुहितरं शकुंतलामतिथिसत्काराय नियुज्य दैवं अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः ।

राजाः -- भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति ।

वैखानसः -- साधयामस्तावत् ।

( इति सशिष्यो निष्क्रान्तः )

राजाः -- सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।

सूतः -- यदाज्ञापयत्यायुष्मन् ।

( इति भूयो रथवेगं निरूपयति )

राजाः -- ( समन्तादवलोक्य ) सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति ।

सूतः -- कथमिव ।

राजाः -- किं न पश्यति भवान् । इह हि

नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते
मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः॥१४॥


सूतः -- सर्वमुपपन्नम् ।

राजाः -- ( स्तोकमन्तरं गत्वा ) तपोवननिवासिनामुपरोधो मा भूत् । एतावत्येव रथं स्थापय यावदवतरामि ।

सूतः -- धृताः प्रग्रहाः । अवतरत्वायुष्मान् ।

राजाः -- ( अवतीर्य ) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद्गृह्यताम् ।

( इति सूतस्याभरणानि धनुश्चोपनीयार्पयति )

सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।

सूतः -- तथा ।

100 questions and answers related to Abhigyan Shakuntalam - click here

( इति निष्क्रान्तः )

राजाः -- ( परिक्रम्यावलोक्य च ) इदमाश्रमद्वारम् । यावत्प्रविशामि ।

( प्रविश्य । निमित्तं सूचयन् )

शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहस्य ।

अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र॥१५॥

( नेपथ्ये )

इत इतः सख्यौ ।

राजाः -- ( कर्णं दत्त्वा ) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि ।

( परिक्रम्यावलोक्य च )

अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुइत एवाभिवर्तन्ते ।

( निपुणं निरूप्य )

अहो मधुरमासां दर्शनम् ।

शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।

दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः॥१६॥


यावदिमां छायामाश्रित्य प्रतिपालयामि ।

( इति विलोकयन् स्थितः )

( ततः प्रविश्यति यथोक्तव्यापारा सह सखीभ्यां शकुंतल )

शकुंतला -- इत इतः सख्यौ ।

अनसूया -- हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि त्वमेतेषामालवालपूरणे नियुक्ता ।

शकुंतला -- न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु ।

( इति वृक्षसेचनं रूपयति )

राजाः -- कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते ।

इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।

ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति॥ १७॥

भवतु । पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि ।

( इति तथा करोति )

शकुंतला -- सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रिताऽस्मि । शिथिलय तावदेतत् ।

अनसूया -- तथा ।

100 questions and answers related to Abhigyan Shakuntalam - click here

( इति शिथिलयति )

प्रियंवदा -- ( सहासम् ) अत्र पयोधरविस्तारयितृ आत्मनो यौवनं उपालभस्व । मां किं उपालभसे ।

राजाः -- काममननुरूपमस्य वपुषो वल्कलं न पुनरलंकारश्रियं न पुष्यति । कुतः ।

सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥१८॥

शकुंतला -- ( अग्रतोऽवलोक्य ) एष वातीरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः । यावदेनं सम्भावयामि ।

( इति परिक्रामति )

प्रियंवदा -- हला शकुन्तले अत्रैव तावन्मुहूर्तं तिष्ठ यावत्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।

शकुंतला -- अतः खलु प्रियंवदासि त्वम् ।

राजाः -- प्रियमपि तथ्यमाह शकुंतलां प्रियंवदा । अस्याः खलु

अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।

कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम्॥१९॥

अनसूया -- हला शकुन्तले इयं स्वयम्वरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । एनां विस्मृताऽसि ।

शकुंतला -- तदात्मानमपि विस्मरिष्यामि ।

( लतामुपेत्यावलोक्य च )

हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः ।

( इति पश्यन्ती तिष्ठति )

प्रियंवदा -- अनसूये जानासि किं शकुंतला वनज्योत्स्नामतिमात्रं पश्यतीति ।

अनसूया -- न खलु विभावयामि । कथय ।

प्रियंवदा -- यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामैवमहमप्यात्मनोनुरूपं वरं लभेयेति ।

शकुंतला -- एष नूनं तवात्मगतो मनोरथः ।

( इति कलशमावर्जयति )

राजाः -- अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् । अथवा कृतं संदेहेन ।

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।

सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः॥२०॥

तथापि तत्त्वत एनामुपलस्ये ।

शकुंतला -- ( ससम्भ्रमम् ) अम्भो । सलिलसेकसम्भ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोभिवर्तते ।

( इति भ्रमरबाधां रूपयति )

राजाः -- ( सस्पृहम् )

चलपाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम्
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती॥२१॥


शकुंतला -- न एष धृष्टो विरमति । अन्यतो गमिष्यामि । कथमितोऽप्यागच्छति । हला परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् ।

उभे -- ( सस्मितम् ) के आवां परित्रातुम् । दुष्यंतमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम ।

राजाः -- अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् -।

100 questions and answers related to Abhigyan Shakuntalam - click here

( इत्यर्धोक्ते स्वगतम् )

राजभावस्त्वभिज्ञातो भवेत् । भवतु एवं तावदभिधास्ये ।

शकुंतला -- ( पदान्तरे स्थित्वा । सदृष्टिक्षेपम् ) कथमितोऽपि मामनुसरति ।

राजाः -- ( सत्वरमुपसृत्य ) आः

कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्

अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु॥२२॥

( सर्वा राजानं दृष्टा किंचिदिव सम्भ्रान्ताः )

अनसूया -- आर्य न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता ।

( इति शकुंतलां दर्शयति )

राजाः -- ( शकुंतलाभिमुखो भूत्वा ) अपि तपो वर्धते ।

( शकुंतला साध्वसादवचना तिष्ठति )

अनसूया -- इदानीमतिथिविशेषलाभेन । हला शकुन्तले गच्छोटजम् । फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति।

राजाः -- भवतीनां सूनृतयैव गिराकृतमातिथ्यम् ।

प्रियंवदा -- तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः ।

राजाः -- नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।

अनसूया -- हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः ।

( इति सर्वा उपविशन्ति )

शकुंतला -- ( आत्मगतम् ) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता ।

राजाः -- ( सर्वा विलोक्य ) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् ।

प्रियंवदा -- ( जनान्तिकम् ) अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन्प्रभाववानिव लक्ष्यते ।

अनसूया -- सखि ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् ।

( प्रकाशम् )

आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किन्निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मापदमुपनीतः ।

शकुंतला -- ( आत्मगतम् ) हृदय मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया मन्त्रयते ।

राजाः -- ( आत्मगतम् ) कथमिदानीं आत्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु । एवं तावदेनां वक्ष्ये ।

( प्रकाशम् )

भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोहमविघ्नक्रियौपलम्भाय धर्मारण्यमिदं आयातः ।

( शकुंतला श‍ृङ्गारलज्जां रूपयति )

अनसूया -- ( उभयोराकारं विदित्वा । जनान्तिकम् ) हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् ।

शकुंतला -- ततः किं भवेत् ।

सख्यौ -- इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति ।

शकुंतला -- युवामपेतम् । किमपि हृदये कृत्वा मत्रयेथे । न युवयोर्वचनं श्रोष्यामि ।

राजाः -- वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः ।

सख्यौ -- आर्य अनुग्रह इवेयमभ्यर्थना ।

राजाः -- भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तदात्मजेति कथमेतत् ।

अनसूया -- श‍ृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः ।

राजाः -- अस्ति । श्रूयते ।

अनसूया -- तमावयोः प्रियसख्याः प्रभवमवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।

राजाः -- उज्झितशब्देन जनितं मे कौतूहलम् । आमूलाच्छ्ह्रोतुमिच्छामि ।

अनसूया -- श‍ृणोत्व् आर्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी ।

राजाः -- अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् ।

अनसूया -- ततो वसंतोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य - ( इत्यर्धोक्ते लज्जया विरमति )

राजाः -- परस्ताज्ज्ञायत एव । सर्वथाप्सरःसम्भवैषा ।

अनसूया -- अथ किम् ।

राजाः -- उपपद्यते ।

100 questions and answers related to Abhigyan Shakuntalam - click here

मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः ।

न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥२३॥

( शकुंतलाऽधोमुखी तिष्ठति )

राजाः -- ( आत्मगतम् ) लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।

प्रियंवदा -- ( सस्मितं शकुंतलां विलोक्य नायकाभिमुखी भूत्वा ) पुनरपि वक्तुकाम इवार्यः ।

( शकुंतला सखीमङ्गुल्या तर्जयति )

राजाः -- सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् ।

प्रियंवदा -- अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम ।

राजाः -- इति सखीं ते ज्ञातुमिच्छामि । वैखानसं किमनया व्रतमाप्रदानाद्व्यापाररोधि मदनस्य निषेवितव्यम् ।

अत्यन्तमात्मसदृशेक्षणवल्लभाभिराहो

निवत्स्यति समं हरिणाङ्गनाभि॥२४॥

प्रियंवदा -- आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः ।

राजाः -- ( आत्मगतम् ) न दुरवापेयं खलु प्रार्थना ।

भव हृदय साभिलाषं सम्प्रति संदेहनिर्णयो जातः ।

आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम्॥२५॥

शकुंतला -- ( सरोषमिव ) अनसूये गमिष्याम्यहम् ।

अनसूया -- किन्निमित्तम् ।

शकुंतला -- इमामसम्बद्धप्रलापिनीं प्रियंवदां आर्यायै गौतम्यै निवेदयिष्यामि ।

अनसूया -- सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वछन्दतो गमनम् ।

( शकुंतला न किंचिदुक्त्वा प्रस्थितैव )

राजाः -- ( ग्रहीतुमिच्छन्निगृह्यात्मानम् । आत्मगतम् ) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि

अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः ।

स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः॥२६॥

प्रियंवदा -- ( शकुंतलां निरुध्य ) हला न ते युक्तं गन्तुम् ।

शकुंतला -- ( सभ्रूभङ्गम् ) किन्निमित्तम् ।

प्रियंवदा -- वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि ।

( इति बलादेनां निवर्तयति )

राजाः -- भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा ह्यस्याः स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।

बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं

बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः॥२७॥

तदहमेनान्नृणां करोमि ।

100 questions and answers related to Abhigyan Shakuntalam - click here

( इत्यङ्गुलीयं दातुमिच्छति )

( उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः )

राजाः -- अलमस्मानन्यथा सम्भाव्य । राज्ञः परिग्रहोयमिति राजपुरुष मामवगच्छत ।

प्रियंवदा -- तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेनानृणेदानीमेषा ।

( किञ्चिद्विहस्य )

हला शकुन्तले मोचितास्यनुकम्पिनार्येण । अथवा महाराजेन । गच्छेदानीम् ।

शकुंतला -- ( आत्मगतम् ) यद्यात्मनः प्रभविष्यामि ।

( प्रकाशम् )

का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा ।

राजाः -- ( शकुंतलां विलोक्य । आत्मगतम् ) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः ।

वाचं न मिश्रयति यद्यपि मद्वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसम्मुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः॥२८॥

( नेपथ्ये )

भो भोस्तपस्विनः सन्निहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः ।

तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।

पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु॥२९॥


अपि च ।

तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसंजातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः॥३०॥


( सर्वाः कर्णं दत्त्वा किंचिदिव सम्भ्रान्ताः )

राजाः -- ( आत्मगतम् ) अहो धिक् पौरा अस्मदन्वेषिणस्तपोवनुपरुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् ।

सख्यौ -- आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि न उटजगमनाय ।

राजाः -- ( ससम्भ्रमम् ) गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे ।

( सर्वे उत्तिष्ठन्ति )

सख्यौ -- आर्य असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् ।

राजाः -- मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।

शकुंतला -- अनसूये अभिनवकुशसूच्या परिक्षतं मे चरणं कुरबकशाखापरिलग्नं च वल्कलम् । तावत्परिपालयत मां यावदेतन्मोचयामि ।

( शकुंतला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता )

राजाः -- मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुंतलाव्यापारादात्मानं निवर्तयितुम् । मम हि

गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य॥३१॥


( इति निष्क्रान्ताः सर्वे )


( इति प्रथमोऽङ्कः । )


100 questions and answers related to Abhigyan Shakuntalam - click here


For more information visit sanskrit medium 
YouTube  - CLICK HERE
Telegram - CLICK HERE
instagram  CLICK HERE


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Indian Army Religious Teacher (RT JCO) 2027: Eligibility for Sanskrit Students

OAV Khordha Recruitment 2026: TGT Sanskrit & Other Teaching Posts | OAV ଖୋର୍ଦ୍ଧା ନିଯୁକ୍ତି ୨୦୨୬

Language Skills (part - 3) Reading Skills