अभिज्ञानशाकुन्तलम्
अभिज्ञानशाकुन्तलम्
अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्गुलीयकं दत्तवान्। तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।
तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरतनामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् --
काव्येषु नाटकं रम्यं तत्र रम्य़ा शकुन्तला।
तत्रापि चतुर्थोंकः तत्र श्लोकचतुष्टयम् ।।
कालिदासस्य तुलनां जनाः शेक्सपियर् नाटककारेण सह कुर्वन्ति। शाकुन्तलविषये गटेनामकस्य जर्मनकवे: अभिप्राय:
Wouldst thou the young year’s blossoms
and the fruits of it decline,
And all by which the soul is charmed,
enraptured, feasted, fed,
Wouldst thou the earth and heaven itself
in one sole name combine?
I name thee, o S’akuntala !
and all at once is said.
अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु महाभारतात् आदिपर्वणः शकुन्तलोपाख्यानात् उद्धृतम् ।
नाटकेऽस्मिन् नायिका शाकुन्तला नायकेन राज्ञा दुष्यन्तेन गान्धर्वविवाहविधिना परिणीता । स्वनगरं प्रति परावर्तमानेन तेन “ एकैकमत्र दिवसे दिवसे मदीयं, नामाक्षरं गणय, गच्छसि यावदन्तम्” ॥ इत्युक्त्वा स्वनामङ्कितमंगुलीयकं स्वयमेव शाकुन्तलायाः हस्ते परिधापितम् । इत्यभिज्ञानविषयिणी घटना महाभारतस्यादिपर्वात् गृहीता ।
“अभिज्ञायते अनेन इति अभिज्ञानम् चिह्नमिति, अभि+ ज्ञा + ल्युट् । शकुन्तैः लालिता शकुन्तला । शकुन्तलामधिकृत्य कृतं नाटकं शाकुन्तलम् ‘अधिकृत्यकृते ग्रन्थे’ इति सूत्रेण ‘अण्’ प्रत्ययः । अभिज्ञानप्रधानं शाकुन्तलम् ‘अभिज्ञानशाकुन्तलम्’ इति व्युत्पतिं दर्शं दर्शं सिध्दमेव अभिज्ञानशाकुन्तलस्य समस्या प्रधानत्वम्, नायिकाप्रधानत्वं च । अतः समस्यां नायिकां च आदाय कृतमस्य ‘अभिज्ञानशाकुन्तलम्’ इति नामकरणं सर्वथा सफलमुचितम् चास्ति । अथवा – अभिज्ञानसहितं शाकुन्तलम् अभिज्ञानशाकुन्तलम् । अथवा अभिज्ञानञ्च शकुन्तलाञ्च इति अभिज्ञानशाकुन्तलम् । कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् । अभिज्ञानशाकुन्तले चतुर्थेऽङ्के कविः कण्वरुपेण उपस्तितोऽस्ति ।
अभिज्ञानशाकुन्तलस्य चतुर्थेऽङ्के लौकिकालौकिक प्रकृतिमानवयोः विलक्षणं समन्वयोऽस्ति । वनौकसोऽपि वयं लौकिकज्ञा एव इति कण्वस्य उद्घोषणा चतुर्थाऽङ्कस्य वैशिष्ट्यं द्विगुणयति । अरण्यवासिन्याः शाकुन्तलायाः पतिगृह- हस्तिना पुरगमनम् अरण्यराजप्रसादयोः किमपि विलक्षणं सम्बन्धं प्रतिपादयति । दुर्वाससः शापः, आकाशवाणी, शकुन्तलायाः पतिगृहगमनम्, वनस्पतिभ्यः शकुन्तलायै आभूषणप्रदानम्, कोकिलरवेण शकुन्तलायाः पतिगृहगमनाय वनस्पतीनां स्वीकृतिः , मृगशावकेन् शकुन्तलामार्गावरोधः, शकुन्तलायाः प्रस्थानं चेति चतुर्थोऽङ्कस्य महत्वपूर्णाः घटनाः सन्ति । अभुज्ञानशाकुन्तलस्य चमत्कारो दुर्वाससः शापघटनायामाश्रितोऽस्ति, अत एव अंकोऽयं विशिष्टं स्थानं बिभर्ति । सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् इत्यनेन शकुन्तलायाः पतिगृहगमनाय अनुज्ञा प्रार्थिता ।
क्षौमं केनचिदिन्दुपाण्डुतरुणा मांगल्यमाविष्कृतम् इत्यनेन शकुन्तलायै वनस्पतिभि आभूषणप्रदानमपि विशिष्टा घटना अस्ति । अस्मान् साधु विचिन्त्य् “ इति महर्षिणा कण्वेन दुष्यन्ताय तथा ‘शुश्रूषस्व गुरुन् कुरु’- इत्यनेन शाकुन्तलायै कृत उपदेशः शाश्वतिकः तथा समाजे सर्वेषां कृते महदुपयोगी अस्ति ।
आपरितोषाद् विदुषां न साधु मन्ये प्रयोग-विज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥
ग्रन्थारम्भे सूत्रधारेण पात्राणां अवधानोपदेशार्थम् उक्तेसति सुविदितप्रयोगतयार्थस्य न किमपि परिहास्यते इति नटीवचनं श्रुत्वा सूत्रधारमुखेन महाकविः भूतार्थं कथयति – प्राज्ञानां सन्तोषपर्यन्तम् अभिनयकौशलं समीचीनं न स्वीकरोमि । कृताभ्यासानां निपुणानामपि सुदृढं चित्तं स्वविषये अविश्वस्तं भवति । ईदृशः वाग्व्यवहारः महाकवेः गुण-गौरवमेव प्रथयति ll
टिप्पणियाँ
एक टिप्पणी भेजें