Language Skills (part - 3) Reading Skills
भाषाकौशलम् (part - 3)(पठनकौशलम्)
- भाषाशिक्षणाय तृतीयं सोपानं पठनकौशलं वर्तते
- छात्राः श्रवणापेक्षया पठनेन अधिकं ज्ञानं लभन्ते
- Boss voile , dear borna मतं पठनकाले चक्षु: कार्यत्रयं करोति गति: (movement) , स्मुति: (fixation), पश्चात् गति: (regressive)
- गति:- पुस्तकपठनकाले नेत्रयो: अग्रे चलनमेव गति इत्युच्यते । स्मृति:- विषयसंगति: , अर्थवोध: , नेत्रस्यैकाग्रता, मानसिकप्रक्रिया सह यदि विषयस्मरणं भवति, तदेव स्मृति: उच्यते । पश्चाद्गति:- यदि कश्चन विषये सन्देह: भवति तर्हि, तस्य पुनः पठनसमये चक्षो: पृष्ठे गमनं पश्चात् गति भवति ।
- शान्तशुद्धचित्तेन सह पठनेन वहुकालं विषयं स्मर्त्तुं शक्नुम:
पठनम् (reading)
शुद्धेनानन्यचित्तेन पठितव्यं प्रयत्नत: ।
न कार्यासक्तमनसो कार्यं पाठस्य वाचनम् ।।
अर्थ:- पठनकाले चित्तशुद्ध, अन्यकार्येषु मनोनिवेशं न कृत्वा, पदभ्रष्ट न भूत्वा अनाविल, अनासक्तरूपेण पठितव्यम्
पठन कौशल pdf - click here
पठनस्य श्रेणीविभाग:
- मुखरता (sound reading) - सस्वरपठनम् , मौनपठनम्
- भावग्रहणीयता (meaningful reading)- गहनपठनम् , विसृतपठनम्
- पठनगति: (rate of reading):- मन्दपठनम् , सामान्यपठनम् , दृतपठनम्
१) मुखरता (sound reading) -
- मुखेन प्रकाशितं पठनं मुखपठनम्
- सस्वरेण पठनं न स्वीकरणीय:
- मुखरता पठनं द्विविधम् - सस्वरपठनम् , मौनपठनम्
1) सस्वरपठनम् -
- यत् स्वरेण सह पठाम: तदेव सस्वरपठनम्
- श्लोकादिनां सस्वरगानेन रसोत्पत्ति: भवति ।
- सस्वरपठनमपि चतुर्भागेषु विभक्त:- (लययुक्तपठनम् Rhythm, मौखिकपठनम् oral reading , आक्षरिकपठनम् word by word reading, गृहपठनम् Home reading)
2) मौनपठनम् (silent reading) -
शब्देन विना पठनं मौनपठनम् । स्मरणशक्ति: , कण्ठस्थिकरणस्य क्षमता वर्धते । स्वप्रकोष्ठ: , कक्षाप्रकोष्ठ: , यानेषु , कोलाहलस्थानेषु एषा विधि: प्रचलति । क्लान्त: न भवति , अधिकपरिश्रमस्य अपि आवश्यकता न भवति ।
- यन्त्रवत् पठनम् (mechanical reading,)- मौनावस्थायां शीघ्रं शीघ्रं पठनम्
- अवघोषपठनम् (sub vocal reading,)- सामान्यकण्ठेन पठनम्
पठन कौशल pdf - click here
२) भावग्रहणीयता (meaningful reading) - अनया विषयभावं च्छात्रा: हृदयङ्गमं कुर्वन्ति । नूतनश्लोकस्य कण्ठस्थि कृत्वा शनै शनै गानेन भावग्रहणं भवति । (गहनपठनम् intensive reading , विस्तृतपठनम् descriptive reading)
- गहनपठनम् intensive reading- अत्यधिककष्टेन वहूपरिश्रमेण चिन्तनेन यत् पठनं भवति तदेव गहनपठनम् , गहनपठनम् अपि द्विविधम् - विकाशार्थं पठनम् development reading, सन्दर्भपठनम् reference reading
- विसृतपठनम् descriptive reading- विषयपाठनकाले यदि सन्धिसमासकारकादि विषये विसृतविवरणं प्रदानं भवति तर्हि तदेव विसृतपठनमिति उच्यते । विस्तृतपठनं द्विविधम् - आधारितपठनं, विमर्शात्मकपठनम्
- आधारितपठनम् basal reading - अन्यविषयं न दृष्ट्वा केवलं प्रासङ्गिकविषयपठनम् आधारितपठनं भवति,
- विमर्शात्मकपठनम् reflective reading- पुर्व-आगामीविषयेनविषयं दृष्ठ्वा पठनं विमर्शात्मकपठनं भवति ।
पठनगति:
- पठनसमये पठनस्य क्षिप्रता एव पठनगति इति उच्यते । चक्षुश्चलनं, विद्वत्तामूल्याकंनम्, मानसिक-शारीरिकावस्थाया: उपरि निर्भरशील: ।
- पठनगति: सामान्यत: त्रिविधम् - मन्दपठनम् , सामान्यपठनम् , द्रुतपठनम्
- उच्चै: पाठं निषिद्धं स्यात् त्वरां च परिव्रज्जयेत्
- शुद्धेनाचलचित्तेन पठितव्यं प्रयत्नत: ।
अधम: पाठक:---
उच्चै: पाठं निषिद्धं स्यात् त्वरा च परिवर्जयेत् ।
अनर्थाज्ञोऽल्पकण्ठश्च षडेते पाठकाधमा: ।।
- मन्दपठनम् (finger reading) - पठनसमये पुस्तके अंगुलिं संस्थाप्य अर्थं न ज्ञात्वा शन्नै: शन्नै: पठनं मन्दपठनं भवति ।
- सामान्यपठनम् (Remedial reading) - पठनकाले कुत्राचित् यदि संशयं: भवति तर्हि तदेव पुनः पठनं सामान्यपठनं भवति
- द्रुतपठनम् (free reading) - प्रमादशून्य स्पष्टोच्चारणपूर्वकं पठनं द्रुतपठनमिति उच्यते ।
पठन कौशल pdf - click here
- सस्वरपठने स्वरयन्त्रस्य मुखस्य च उपयोगात् परिश्रमः अधिकः भवति ।
- उच्चांगपठनेन वाल्यकाले उच्चारणगतत्रुदय: दूरिभूता: भवन्ति ।
- मौनपठेन परिश्रमः स्वल्पः भवति ।
- मौनपठनस्य अभ्यासः छात्राणां कृते अत्यन्तमावश्यकम् ।
- तेन दीर्घकालं पठितुम् अल्पेन कालेन वहु अध्येतुं शक्यते ।
- शान्तशुद्धचित्तेन सह पठनेन वहुकालं विषयं स्मर्त्तुं शक्नुम: ।

कालिदास
जवाब देंहटाएं