Sanskrit teaching Method (part 1) , (Direct method)


Sanskrit Teaching Method (part 1)

प्रत्यक्षविधि: (Direct Method)



भाषशिक्षणविधि द्विधा
  • प्राचीनविधि:
  • नवीनविधि:

प्राचीनविधि:-
  • परम्परागतविधि:
  • मौखिकविधि:
  • पारायणविधि:
  • पश्नोत्तरविधि:
  • कथाकथनविधि:
  • व्याख्याविधि:
  • भण्डारकरविधि:

नवीनविधि:-
  • प्रत्यक्षविधि:
  • पाठ्यपुस्तकविधि:
  • विश्लेषणात्मकविधि
  • संयुक्तविधि: / समाहारविधि:


प्रत्यक्षविधि: pdf- click here


प्रत्यक्षपद्धति: (Direct method

  • निर्बाधविधि: / सुगमविधि: / प्राकृतिकविधि:
  • प्रत्यक्षविधेः तात्पर्यमस्ति यत् या भाषा अध्यापनीया, तया भाषाया एव बोधनीया
  • शिक्षक: व्याकरण-नियमान् न उक्त्वा भाषाम् अध्यापयति ।
  • भाषामाध्यमेन एव भाषाशिक्षणं भवति
  • गद्यशिक्षणे एतस्य प्रयोग: भवति
  • एतस्या: पुर्वं हर्वट् पंचपद्धति: प्रचलिता आसीत् ।

पञ्चसोपानानि
  1. प्रस्तुति (preparation)
  2. उपस्थापनम् (presentation)
  3. तुलना (comparison)
  4. आत्मीकरणम् (Assimilation)
  5. प्रयोग‌ (Application)
  • हर्वटियपंचपद्धतिद्वारा समयेन शिक्षादानं समाप्तं न भवति स्म ।
  • अत: प्रत्यक्षपद्धत्या: परवर्तीसमये त्रीणि सोपानानि विकाश: अभवत् (उपक्रम: Introductory stage, उपस्थापनम् presentation stage, प्रयोग: Application stage)
  • अनया विधया बाल: अनुकरणेन भाषाज्ञानं प्राप्नोति
  • दृश्यश्रव्योपकरणानां प्रयोगं कृत्वा च्छात्रान् पाठनीयम् ।
  • प्राथमिककक्षासु अत्यन्तोपयोगी वर्तते
  • काठिन्यनिवारणाय दृश्यश्रव्योपकरणानां व्यवहारं भवति , पुनश्च पर्यायवाची शब्दानां व्यवहार: भवति

उपक्रमसोपानम् Introductory stage -
श्रेणीसज्जा, शृङ्खला, पूर्वार्ज्जितज्ञानपरीक्षा विषयवस्तो उद्देश्यं दृष्ट्वा आरम्भ: भवति । श्रेणीप्रकोष्ठे शान्तिरक्षा, च्छात्राणां मानसिकप्रस्ति निमित्तं केचन प्रश्ना: प्रोष्टव्या ।

उपस्थापना (Presentation)
शिक्षकद्वारा आदर्शवाचनं , विद्यार्थीद्वारा उच्चपठनं/ सस्वरपठनस्य समाप्ते: परं काठिन्यनिवारणाय कृष्णफलके क्लिष्टशब्दानां यथारिति वाक्ये प्रयोग: ।

प्रयोग: (Application)
लब्धज्ञानस्य परिमापनाय भाषाव्याकरणं च प्रमुखत्वया ग्रहितव्यम्। पठितविषयवस्तो आधारेण चरित्र-प्रवाद-वाक्यांशं केद्रं कृत्वा सर्वनिम्नप्रश्ना: प्रष्टोव्या । कक्षात्यागात्पूर्वं केचन प्रश्ना: गृहकार्यरूपणे प्रदाय कक्षा त्यक्तव्या ।

ध्येयाः बिन्दवः
1. मौखिकार्यस्य प्रधानता स्यात् ।
2. कामपि भाषां बोधयितुं मातृभाषायाः प्रयोगः न करणीयः।
3. पदपदार्थयो: साक्षात् सम्बन्धं संस्थाप्य पाठयेत् 

   (सर्वप्रथमप्रयोग:- संस्कृतशिक्षणे विधेः प्रयोगः सर्वप्रथमं प्रो. वी.पी. बोकीलमहोदयेन अल्फिन्स्टोननाम्निविद्यालये, मुम्बईनगरे कृतः। 'A New Approach to Sanskrit' इत्यस्मिन् पुस्तके प्रो. बोकीलमहाभागेन प्रत्यक्षविधेः उपयोगितायाः वर्णनं सम्यग्रूपेण प्रतिपादितम् । तेन स्वीकृतं यत् भाषाशिक्षणे अयं विधिः अत्युपयोगी अस्ति। अनेन विधिना शिक्षणसमये कक्षायाः परिवेश: संस्कृतमय: स्यात् । अध्यापकैः छात्रैरपि कक्षायां संस्कृतभाषा व्यवहृता स्यात् । विरोधी:- डॉ.रामकृष्णगोपालभंडारकर:, वामन शिवराम आप्टे च)


प्रत्यक्षविधि: pdf- click here

गुणा:
1. इयं विधिः भाषाशिक्षणसिद्धान्तानुकूलोऽस्ति यतो हि अनेन विधिना संस्कृतं संस्कृतमाध्यमेनैव पाठ्यते । गद्यपाठनायोपयुक्ता पद्धति एषा।
2. छात्रशिक्षकयोः सम्भाषणं प्रचलति अत: ते सक्रिया: भवन्ति ।
3. श्रवणे-पठने-लेखने-भाषणे च पर्याप्तावसर उपलभ्यते ।
4. अयं विधिः संस्कृतशिक्षायाः स्तरोन्नयनाय सहायको भवति ।
5. छात्रेषु संस्कृतमाध्यमेन स्वतन्त्ररूपेण स्वविचारान् प्रकटयितुं क्षमतायाः विकासो भवति ।
6. प्रतिभाशालीबालानां कृते उपयुक्त: ।
7. ज्ञातत: अज्ञातं प्रति, सरलात् कठिनं प्रति च्छात्रान् नयति ।

दोषा:-
1. अनया विधना संस्कृतशिक्षणस्य गतिः मन्दा भवति
2. प्रतिभाशालिनः छात्रा: उपकृता भवन्ति न तु सामान्याः मन्दाश्च
3. प्राथमिकस्तरे एष अनुपयुक्तो भवति ।
4. संस्कृतस्य प्रत्येक विधायाः कृते तेषां प्रत्येक सोपानस्य कृते उपयोगी नास्ति
5. भाषणकौशलस्य प्राधान्यात्‌ अन्यभाषाकौशलानामुपेक्षा भवति।
6. अनया विधया शिक्षणाय अधिकसमयस्य शक्तेश्च आवश्यकता भवति


प्रत्यक्षविधि: pdf- click here


For more information visit sanskrit medium 
YouTube  - CLICK HERE
Telegram - CLICK HERE
whatsapp - click here



टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Indian Army Religious Teacher (RT JCO) 2027: Eligibility for Sanskrit Students

OAV Khordha Recruitment 2026: TGT Sanskrit & Other Teaching Posts | OAV ଖୋର୍ଦ୍ଧା ନିଯୁକ୍ତି ୨୦୨୬

Language Skills (part - 3) Reading Skills