Sanskrit teaching Method (part 3) anvaya method
Sanskrit teaching Method (part 3)अन्वयपद्धतिः
• संस्कृतभाषायां कविताकृति पदसंयोजना श्लोक उच्यते
• श्लोके पादसंख्या चत्वार:
• अन्वयपद्धतिः साहित्यपद्यपठनार्थम् आवश्यकी
• अन्वयं विना गद्यं पाठयितुं शक्यते , पद्यं तु न ।
• गद्ये कर्त्ता, कर्म, क्रिया च क्रमश: भवन्ति पद्ये तथा न
• भावावगाहनाय कर्त्तृकर्मक्रियादीनां, क्रमेण सस्थापनं नाम अन्वयः ।
• अनया पद्धत्या साहित्यपद्यपाठनं सुगमं भवति ।
विशेषणं पुरस्कृत्य विशेषं तदनन्तरम् ।
कर्त्तृकर्मक्रियायुक्तमेतदन्वयलक्षणम् ।।
सोपनम् - कर्त्ता- क्रिया - पुरुष/वचनं- (मुख्यक्रियापदम्) कर्मपद:- विशेषणम् - असमापिकाक्रिया - अवशिष्टम्
अन्वयपद्धति द्विविधम् - दण्डान्वय-पद्धति: , खण्डान्वयपद्धति:
दण्डान्वय-पद्धति:-
दण्डान्वयस्य परिभाषा एवं प्रकारेण कथ्यते -
आदौ विशेषणं योज्यं विशेष्यं तदनन्तरम्क्त्वाणमुल्ल्यप्प्रभृत्येवं दण्डन्वये भवेत् ।।
• पद्यशिक्षणे अस्मिन्विधौ श्लोकस्य कवितायाः वा अर्थः सम्यक् ज्ञानं प्राप्यते ।
• सम्पूर्णपद्यं कविता वा पूर्णगद्यरूपेण वाक्ये परिवर्त्तनं दण्डान्वयः इति उच्यते ।
• विद्यमानं प्रधानं वाक्यम् अन्वेषणीयम्
• प्रधानवाक्यस्य अन्वेषणानन्तरं विशेषण- विशेष्य (कर्त्ता)-क्रियादिन् - असमापिकाक्रिया ज्ञानमावश्यकम्।
• एवं रीत्या कर्तृकर्मक्रियादीनां माध्यमेन यत्राध्यापनं भवति तत्र दण्डान्वयपद्धतिराश्रिता इति वक्तुं शक्यते।
• पद्यखण्डं पूर्णवाक्ये अर्थात् दण्डे बोधब्यः।
• दण्डान्वयविधौ व्याकरणसम्बन्धी प्रश्नाः आगच्छन्ति
• पद्यं अथवा कविता शिक्षणे दण्डान्वय अपेक्षया खण्डान्वय विधेः प्रयोगः अत्यन्तं श्रेयस्करः ।
गुणा:
• अर्थवगाहने क्लेशः न भवति
• विषयं सम्पूर्णरूपेण ज्ञातुं शक्यते ।
• श्लोकस्य भावावगाहनं सरलतया भवति ।
खण्डान्वयपद्धति:-
• खण्डान्वयपद्धत्या: नामान्तरमस्ति यत् प्रश्नोत्तरविधरिति
• प्रधानं वाक्यमन्विष्टं भवति
• तदनु क्रियापदं निर्धारणीयम्
• प्रश्नानां एवं समाधानद्वारा वाक्यशेषांशस्य ज्ञानं सम्पादनीयम्।
• खण्डान्वयविधिः प्रश्नोत्तर विधेः एकमङ्गं भवति ।
• अस्मिन् विधौ प्रश्नाः पाठयविषयोपरि आधारिता भवन्ति ।
खण्डान्वयविधेः परिभाषा एवं रूपेण कथितम्-
"कर्तृकर्म क्रियास्तावच्छलोके योज्यास्ततः परम्
किमो रूपं पुरस्कृत्य तृतीयादि नियोजयेत ।।
ल्यवन्तं च तुमन्तं च कत्वान्तं कर्म विभूषितम्
खण्डान्वये पुनः प्रश्नपूर्वमन्ते प्रयोजयेत् ।।"
टिप्पणियाँ
एक टिप्पणी भेजें