भारतीयज्ञानपरम्परायाम् अथर्ववेदस्य वैशिष्ट्यं महत्त्वञ्च
भारतीयज्ञानपरम्परायाम् अथर्ववेदस्य वैशिष्ट्यं महत्त्वञ्च
१. प्रस्तावना
विश्वसाहित्ये प्राचीनतमः ग्रन्थः 'वेदः' इति मन्यते। 'विद्' ज्ञाने इति धातोः 'घञ्' प्रत्यये कृते 'वेद' शब्दः निष्पद्यते, यस्य अर्थः भवति 'ज्ञानम्'। भारतीयसंस्कृतेः, धर्मस्य, दर्शनस्य च मूलस्रोतः वेदाः एव सन्ति। मनुस्मृतौ उक्तम् - "वेदोऽखिलो धर्ममूलम्"। अर्थात् वेदः समग्रस्य धर्मस्य मूलम् अस्ति। भारतीयानां विश्वासः अस्ति यत् वेदाः अपौरुषेयाः सन्ति, अर्थात् तेषां रचना केनापि मनुष्येण न कृता, अपितु ईश्वरीयज्ञानं ऋषिभिः समाधौ साक्षात्कृतम्। वेदराशिः विशालः अस्ति, अतः महर्षिणा वेदव्यासेन तस्य विभाजनं चतुर्धा कृतम् - ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च। एतेषु अथर्ववेदः अन्तिमः, विशिष्टः, लौकिकजीवनस्य मार्गदर्शकः च वर्तते।
२. चत्वारो वेदाः : एकं सिंहावलोकनम्
यद्यपि अद्यतनः मुख्यविषयः अथर्ववेदः अस्ति, तथापि तस्य महत्त्वं ज्ञातुं अन्येषां त्रयाणां वेदानां परिचयः आवश्यकः।
(क) ऋग्वेदः : अयं विश्वस्य आदिमः ग्रन्थः। 'ऋक्' नाम स्तुतिपरकः मन्त्रः। अस्मिन् १० मण्डलेषु विभक्ताः १०२८ सूक्तानि सन्ति। अत्र अग्निः, इन्द्रः, वरुणः, उषसः प्रभृतीनां देवतानां स्तुतयः सन्ति। ऋग्वेदस्य मुख्यः विषयः ज्ञानम् (Knowledge) अस्ति। अस्य ऋत्विक् 'होता' उच्यते।
(ख) यजुर्वेदः : 'यजुष्' नाम गद्यात्मकाः मन्त्राः। अयं वेदः कर्मकाण्डप्रधानः अस्ति। यज्ञानां विधि-विधानानि अत्र वर्णितानि सन्ति। अस्य द्वौ भागौ स्तः - शुक्ल-यजुर्वेदः कृष्ण-यजुर्वेदः च। अस्य ऋत्विक् 'अध्वर्युः' कथ्यते।
(ग) सामवेदः : 'साम' इत्युक्ते गीतिः। ऋग्वेदस्य मन्त्राः यदा गीयन्ते, तदा ते सामवेदः इति उच्यन्ते। भारतीयसङ्गीतशास्त्रस्य उत्पत्तिः इतः एव अभवत्। अस्य ऋत्विक् 'उद्गाता' अस्ति।
(घ) अथर्ववेदः : अयं चतुर्थः वेदः। पूर्वोक्ताः त्रयः वेदाः 'त्रयी' इति उच्यन्ते, यतः तेषु पारलौकिकविषयाणां, यज्ञयागादीनां च प्राधान्यं वर्तते। किन्तु अथर्ववेदः 'इहलोक'स्य (This World) वेदः अस्ति। अत्र मानवानां दैनन्दिनजीवने उत्पद्यमानानां समस्यानां समाधानं वर्तते।
३. अथर्ववेदस्य परिचयः नामकरणञ्च
अथर्ववेदस्य नामकरणं 'अथर्वा' ऋषेः नाम्ना अभवत्। 'अथर्वा' शब्दस्य अर्थः भवति - निश्चलः, कम्पशून्यः योगी। पतञ्जलिमुनिना महाभाष्ये अथर्ववेदस्य नव शाखाः उल्लिखिताः, किन्तु साम्प्रतं केवलं द्वे शाखे उपलब्धे स्तः - शौनकशाखा तथा पैप्पलादशाखा।
अस्मिन् वेदे २० काण्डानि, ७३० सूक्तानि, तथा प्रायः ६००० मन्त्राः सन्ति। अस्य वेदस्य अन्यानि अपि नामानि सन्ति, यानि तस्य वैशिष्ट्यं दर्शयन्ति:
अथर्वाङ्गिरसवेदः : अथर्वा (शान्तिपुष्टिकांर्याणि) तथा अङ्गिरा (अभिचारकर्माणि) ऋषीणां दर्शनात् इदं नाम प्रसिद्धम्।
ब्रह्मवेदः : यज्ञे चत्वारः ऋत्विजः भवन्ति - होता, अध्वर्युः, उद्गाता, ब्रह्मा च। अथर्ववेदस्य ज्ञाता एव 'ब्रह्मा' भवति, यः यज्ञस्य निरीक्षणं करोति। अतः अयं ब्रह्मवेदः।
भैषज्यवेदः : अत्र रोगाणां चिकित्सा वर्णिता, अतः इदं नाम।
क्षत्रवेदः : अत्र राष्ट्ररक्षणस्य, युद्धस्य च वर्णनं अस्ति।
४. अथर्ववेदस्य वैशिष्ट्यमालोचनम्
अथर्ववेदः अन्यवेदेभ्यः पृथक् अस्ति। ऋग्वेद-यजुर्वेद-सामवेदेषु देवानां स्तुतिः, यज्ञकर्म, स्वर्गादिप्राप्तिः मुख्यविषयाः सन्ति। परन्तु अथर्ववेदे सामान्यमनुष्यस्य जीवनं, तस्य सुख-दुःखं, रोगः, शत्रुभयम्, गृहनिर्माणं, कृषिः, व्यापारः, राजनीतिः, तत्त्वज्ञानं च विस्तरेण वर्णितम् अस्ति। अस्य वैशिष्ट्यं निम्नबिन्दुभिः स्पष्टीकर्तुं शक्यते:
(क) भैषज्यविज्ञानम् (Ayurveda & Medicine):
अथर्ववेदः आयुर्वेदस्य मूलस्रोतः अस्ति। अत्र शरीराङ्गानां (Anatomy) अद्भुतं वर्णनं प्राप्यते। ज्वरः (Takman), यक्ष्मा, कुष्ठम्, कासः इत्यादीनां रोगाणां लक्षणानि चिकित्सा च अत्र वर्णिता।
ओषधीनां वर्णनम् : "यासां द्यौः पिता पृथिवी माता समुद्रो मूलम्..."। अथर्ववेदे शतशः जडीबुटीनां (Herbs) उल्लेखः अस्ति, याभिः रोगनिवारणं भवति। 'पृश्निपर्णी', 'अपामार्गः', 'रोहिणी' इत्यादीनां वनस्पतीनां गुणाः अत्र वर्णिताः।
कृमिविज्ञानम् (Germ Theory): आधुनिकविज्ञानात् सहस्राब्दपूर्वं अथर्ववेदे रोगाणां कारणं 'कृमिः' (Germs/Bacteria) इति उक्तम्। "दृष्टानदृष्टान् अतृहाम्" (दृश्यमानं तथा अदृश्यं कृमिं नाशयामि) इति मन्त्राः अत्र सन्ति।
(ख) राष्ट्रभक्तिः तथा राजनीतिः (Nationalism & Polity):
विश्वसाहित्ये राष्ट्रभक्तेः प्रथमः स्वरः अथर्ववेदे एव श्रूयते। 'पृथिवीसूक्तम्' (१२.१) अथर्ववेदस्य सर्वश्रेष्ठं सूक्तं मन्यते। अत्र ६३ मन्त्रैः मातृभूमेः वन्दना कृता अस्ति।
प्रसिद्धः मन्त्रः: "माता भूमिः पुत्रोऽहं पृथिव्याः" (भूमिः मम माता अस्ति, अहं तस्याः पुत्रः अस्मि)।
अस्मिन् वेदे 'सभा' और 'समिति' इति प्रजातन्त्रस्य द्वे संस्थे वर्णिते। राज्ञः निर्वाचनं, राज्ञः कर्त्तव्यं, युद्धनीतिः, राष्ट्रस्य शक्तिवर्धनं (राष्ट्रसंवर्धनसूक्तम्) च अत्र प्रमुखविषयाः सन्ति। "वयं राष्ट्रे जाग्रयाम पुरोहिताः" इति उद्घोषः अत्रैव लभते।
(ग) समाजशास्त्रं गृहस्थजीवनञ्च:
सामान्यजनानां जीवनं कीदृशं भवेत्, इति अथर्ववेदः शिक्षयति।
साममनस्यम् : पारिवारिकशान्तये 'साममनस्य' सूक्तानि सन्ति। "सहृदयं सांमनस्यमविद्वेषं कृणोमि वः" (अहं युष्मभ्यं समानहृदययुक्तं, द्वेषरहितं करोमि)।
विवाहसंस्कारः : अथर्ववेदस्य १४ तमे काण्डे विवाहस्य मन्त्राः सन्ति। पति-पत्न्याः कर्त्तव्यानि अत्र विस्तारितेन उक्तानि।
कृषिः व व्यापारः : अन्नादिसमृद्धये कृषिः, पर्जन्यप्रार्थना, तथा व्यापारवृद्धये मन्त्राः अत्र उपलभ्यते।
(घ) अभिचारक्रियाः (Magic & Charms):
अथर्ववेदस्य एकः मुख्यः भागः तान्त्रिकविद्या वा अभिचारक्रिया अस्ति। इदं द्विविधम् -
१. शान्ति-पौष्टिककर्माणि (White Magic): रोगाणां नाशः, आयुष्यवर्धनम्, धनप्राप्तिः, रक्षणम्।
२. अभिचार-कर्माणि (Black Magic): शत्रूणां नाशः, मोहनम्, उच्चाटनम्। यद्यपि एतत् भयंकरं प्रतीयते, तथापि तस्मिन् काले आत्मरक्षणाय, राष्ट्ररक्षणाय च अस्य प्रयोगः भवति स्म।
(ङ) दार्शनिकविचारधारा (Philosophy):
केचन वदन्ति यत् अथर्ववेदः केवलं जादू-टोना (Sorcery) वेदः अस्ति, किन्तु तत् असत्यम्। अत्र उच्चकोटिः दार्शनिकचिन्तनं लभते।
कालसूक्तम् : कालं (Time) परमतत्त्वरूपेण वर्णितम्। "कालो अश्वो वहति सप्तरश्मिः"।
स्कम्भसूक्तम् : अत्र 'स्कम्भ' (Support/Pillar of Universe) इति परब्रह्मणः रूपं वर्णितम्।
उच्छिष्टब्रह्मवादः : अवशिष्टं तत्त्वं (Remnant) एव पूर्णं ब्रह्म इति चिन्तनम्।
(च) नारीमहत्त्वम्:
अथर्ववेदे नार्यः सम्मानं प्राप्तवत्यः आसन्। "ब्रह्मचर्येण कन्या युवानं विन्दते पतिम्" - अर्थात् कन्या अपि वेदाध्ययनं (ब्रह्मचर्यं) कृत्वा एव पतिं प्राप्नोतु। अत्र पतिं प्रति पत्न्याः अधिकारः स्पष्टरूपेण वर्णितः।
५. अथर्ववेदस्य वैज्ञानिकदृष्टिकोणः
अथर्ववेदः अन्धविश्वासस्य ग्रन्थः नास्ति। अत्र सूर्यस्य रश्मिभिः चिकित्सा (Suryakiran Therapy/Chromotherapy) वर्णिता। "उद्यन् आदित्यः रश्मिभिः शीर्षक्तिं (Headache) नाशयति"। जलचिकित्सा (Hydrotherapy) - "अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा" (जले सर्वे औषधाः सन्ति)। गणितं, ज्योतिषं, खगोलशास्त्रं च अथर्ववेदस्य मन्त्रेषु बीजरूपेण विद्यते।
६. उपसंहारः
निष्कर्षरूपेण वक्तुं शक्यते यत् अथर्ववेदः 'जीवनस्य वेदः' (Veda of Life) अस्ति। यद्यपि ऋग्वेदः देवानां वेदः, यजुर्वेदः यज्ञानां वेदः, सामवेदः गानस्य वेदः, तथापि अथर्ववेदः मानवानां वेदः अस्ति। सः अस्मान् शिक्षयति यत् कथं अस्मिन् लोके स्वस्थं, समृद्धं, शान्तं च जीवनं यापयितव्यम्, तथा कथं परब्रह्म प्राप्तव्यम्।
आयुर्वेदस्य, राजनीतिशास्त्रस्य, समाजशास्त्रस्य च अध्येतुः कृते अथर्ववेदः कल्पवृक्षः इव अस्ति। राष्ट्रप्रेमस्य "माता भूमिः पुत्रोऽहं पृथिव्याः" इति मन्त्रः अद्यतने युगे अपि प्रासङ्गिकः अस्ति। अतः चतुर्षु वेदेषु अथर्ववेदस्य स्थानं विशिष्टं, गौरवपूर्णं, व्यावहारिकं च वर्तते। सत्यमेव उक्तम् - "यत्र ब्रह्मविदः (अथर्ववेदज्ञाः) सन्ति, तद् राष्ट्रं न सीदति।"


भारतीयज्ञान परम्परायाम्
जवाब देंहटाएं