योगस्य अनादि-परम्परा
योगस्य अनादि-परम्परा: वेदेषु उद्भवः, इतिहासः दर्शनञ्च
भूमिका (Introduction)
योगस्य परम्परा : वेदेषु मूलरूपेण यद्वा सूत्रात्मकरूपेण सर्वा विद्याः सन्ति। योगस्य वर्णनमपि सर्वासु वैदिकसंहितासु मूलरूपेण प्राप्यते। विश्वस्य सर्वे विद्वांसः स्वीकुर्वन्ति यद्वेदा विश्वस्य प्राचीनतमा ग्रन्थाः सन्ति।
भारतीयज्ञानपरम्परानुसारन्तु सर्गादौ परमकारूणिकेन परमेश्वरेण सर्वोपकारार्थम् अग्नि-वायुः, आदित्य, अङ्गिरा इत्येतेभ्यो ऋषिभ्योऽनुक्रमेण ऋग्वेदस्य, यजुर्वेदस्य, सामवेदस्य, अथर्ववेदस्य च ज्ञानं दत्तम्। इत्यं स्वतः सिद्धं यद् योगपरम्परा अपि सर्गसृजनेन सहैव प्रचलिता आसीत्।
वेदेषु योगस्य बीजानि (Yoga in the Vedas)
प्रस्तूयन्तेऽत्र केचन योगविषयका वेदमन्त्राः -
"योगे योगे तवस्तरं वाजे वाजे हवामहे। सखाय इन्द्रमूतये।" (यजुर्वेदः)
"अष्टचक्रा नव द्वारा देवानां पूरयोध्या।" (अथर्ववेदः)
योगविषयका एतादृक्षा बहवो मन्त्रा वेदेषु सन्ति। अत्र तु निदर्शनरूपेण कतिपयानां मन्त्राणामेवोल्लेखः कृतः। वेदेषु विस्तरेण योगसिद्धान्तानां चर्चा विद्यते। अस्मिन् विषये स्वामिदिव्यानन्द सरस्वतिमहोदयेन लिखितो ग्रन्थो द्रष्टव्यः। वेदानां व्याख्यानभूतेषु ब्राह्मणारण्यकोपनिषत्साहित्येसु अपि विस्तरेण योगस्य चर्चा विद्यते।
उपनिषत्सु गीतायां च योगपरम्परा (Yoga in Upanishads and Gita)
कठोपनिषदि वर्णनमस्ति - यदा पञ्चज्ञानेन्द्रियाणि मनसा सह स्वकीयं व्यापारं विहाय स्थिराणि भवन्ति। बुद्धिश्च न विचेष्टते सैव 'परमशान्त्यवस्था' कथ्यते।
योगेश्वरेण भगवता कृष्णेन पञ्चसहस्रवर्षेभ्यः पूर्वमेव गीतायां योगपरम्पराया वर्णनं एवम्प्रकारेण विहितमस्ति:
आदौ ईश्वरेण योगस्य ज्ञानं विवस्वते दत्तमासीत्।
विवस्वान् मनवे योगशास्त्रं प्राह।
मनुना इक्ष्वाकोऽध्यापित।
एवमुत्तरोत्तरं योगपरम्परा प्रचलिता। अनन्तरं अस्या योगपरम्पराया विलोपः सञ्जातः। तस्यैव योगस्य ज्ञानमधुना मया ते दत्तम्।
आदियोगी शिवः ऐतिहासिकं साक्ष्यं च (Adiyogi Shiva and Historical Evidence)
भारतीय परम्परायामादियोगी शिव इति मन्यते। आदिकाले शिवेन हिमालयस्थे "कान्ति" इति नाम सरोवरतीरे सप्तऋषिभ्यो योगस्य ज्ञानं दत्तमासीत्। एतैः सप्तभिः ऋषिभिस्तञ्ज्ञानं संसारस्य विविधेषु भूभागेषु प्रचारितम्। शिवः हिमालयक्षेत्रस्याधिपतिरासीत्। शिवस्य राज्ये भागीरथेन गङ्गायाः प्रवाहः प्रवाहितः, यस्य आलङ्कारिकं वर्णनं पुराणेषूपलभ्यते।
पुरातत्त्वं साक्ष्यम्: 2700 ईसातः पूर्ववर्तिषु सिन्धुसभ्यतायां तथा च सरस्वती सभ्यतायां योगासनानां योगमुद्रादीनाञ्च प्राप्यमाणाः साक्ष्या अपि प्रमाणयन्ति यद् भारते सुव्यवस्थिता योगपरम्परा प्रचलिता आसीत्।
योगपरम्परायाः ह्रासः पुनरुत्थानञ्च (Decline and Revival)
महाभारतयुद्धानन्तरमेकवारं पुनर्विलुप्तेव सञ्जाता योगपरम्परा। केवलं कतिपयेषु गिरिकन्दरासु तपस्यारतेषु ऋषिमुनिष्वेन सीमिता सञ्जाता। लोके च योगविषये विविधा भ्रान्ता धारणाः प्रचलिताः।
वर्तमानकाले महर्षिणा दयानन्देन पुनः महर्षिपतञ्जलेर्योगदर्शनस्य वास्तविकं स्वरूपं प्रकाशितम्।
तदनन्तरं महर्षिदयानन्दस्य अनुयायिभिर्भूरिशः प्रचारः कृतो योगपरम्परायाः, तेषु स्वामिरामदेवस्य अपूर्वमेव योगदानं वर्तते।
योगस्य परिभाषा: उद्देश्यं च (Definition and Purpose of Yoga)
योगः कः?
समाधिः: यदा कश्चिच्चित्तवृत्तीनवरुध्य समाधिस्थो भूत्वा परमात्मनः साक्षात्करोति, सा समाध्यवस्था योग उच्यते।
शान्तावस्था: कठोपनिषदनुसारं यदा पञ्चज्ञानेन्द्रियैः सहितमन्तःकरणस्यांखिलमपि क्रियाकलापमवरुध्यते सा शान्तावस्था 'योगः' इति कथ्यते।
गीतानुसारम्: "योगः कर्मसु कौशलम्" यद्वा "समत्वं योग उच्यते" (सुखदुःखावेगावसादात्मकेषु झञ्झावातेष्वविचलितरूपेण समत्वस्थितिः)।
उद्देश्यद्वयम्:
पारमार्थिकम्: यदा मानव इन्द्रियाणि नियम्य आत्मनः परमात्मनश्च साक्षात्करोति तदा स दुःखत्रयाद्विमुच्य पूर्णानन्दावस्थायां वर्तमानो मोक्षं प्राप्नोति।
व्यवहारिकम्: यदा मानवो योगाभ्यासेन जितेन्द्रियत्वमाप्नोति तदा स सुखदुःखादिभिर्द्वन्द्वैरभिहन्यमानोऽपि समावस्थायां वर्तमानः फलाकाङ्क्षाधिकारचिन्तारहितः स्वकर्त्तव्यकर्मसु व्यापृतो भवति।
योगशब्दस्य व्युत्पत्तिः (Etymology of 'Yoga')
योगशब्दस्य व्युत्पत्तिः पाणिनीय धातुपाठानुसारं "युज्" धातुना सह 'घञ्' प्रत्यये सति 'योगः' शब्दो निष्पद्यते। "युज्" इति धातुस्त्रिष्वर्थेषु विद्यते पाणिनीयधातुपाठे:
युज् समाधौ (दिवादिगणः)
युजिर् योगे (रुधादिगणः)
युज् संयमने (चुरादिगणः)
योगदर्शनसन्दर्भे समाध्यर्थकयुज् धातुना 'योगः' शब्दो निष्पन्नो भविष्यति। अस्मिन् विषये योगदर्शनस्य प्रथमो भाष्यकारो महर्षि व्यासः प्रमाणम्। स योगशब्दस्यार्थः समाधिः करोति- "योगः समाधिः स च सार्वभौमचित्तस्य धर्मः" I
भारतीय ज्ञानपरम्परायामधो निर्दिष्टाः
योगस्य सप्तपद्धतयः सन्ति। तद्यथा (1) साङ्ख्ययोगः /
ज्ञानयोगः (2) कर्मयोगः (3) भक्तियोगः (4) मन्त्रयोगः (5) लययोगः (6) हठयोगः। एषां समेषां परिचयोऽधोलिखितः
(1) - साङ्ख्ययोगः /
ज्ञानयोगः
साङ्ख्ययोगस्य यद्वा ज्ञानयोगस्य
प्रथमो व्याख्याता महर्षि कपिल आसीत्। गीतायां भगवता कृष्णेन प्रतिपादितं यत्
ज्ञानेन सदृशं किमपि पवित्रं नास्ति। यदा जीवात्मा साङ्ख्यदर्शने विवेचितानि
पञ्चविंशतिः तत्त्वानि यथार्थतया जानाति तदनन्तरं स मुक्तो भवति। एष एव
ज्ञानयोगः/साङ्ख्ययोगोऽस्ति। गीतायां ज्ञानयोगस्य व्याख्या इत्थं प्रतिपादिता
अस्ति यथा अग्नि रैधांसि समिद्धः भस्मसात्कुरते तद्वदेव ज्ञानाग्निः सर्वकर्माणि
भस्मसात्कुरुते।
(2) - कर्मयोगः
कर्मफलेष्वधिकारं विहाय, आत्मानं
निमित्तमात्रमङ्गीकृत्य यदा मानवः कर्मसु प्रवृत्तो भवति तदेव
"कर्मयोगः" यद्वा "निष्कामकर्मयोगः" इति कथ्यते।
कर्मफलाधिकारत्यागस्य नास्त्यमभिप्रायो यत्कर्मणः फलन्तु प्राप्स्यत्येव न
तत्किमर्थं वयं कर्म कुर्मः ? कारणकार्यसिद्धान्तानुसारं कृतकर्मणः
फलन्तु निश्चितमेवास्ति। अस्य अयमेव अभिप्रायो यद्-यदा वयं कृतस्य कर्मणः
फलप्राप्त्यर्थमेव कर्मसु प्रवृत्ता भवामस्तदा वयं संशयग्रस्ताः, चिन्तातुराः, भयभीता इत्यादिभ्यो
नकारात्मकेभ्यो विचारेभ्यो विचलिता भवामः। कृतस्य कर्मणः फलं प्राप्स्यति न वा? कदा प्राप्स्यति ? काचिद् बाधा तु
नोपस्थिता भविष्यति ? इत्यादिभिः कारणैः कर्मसुन्यूनता भवति। यया शक्त्या, येन चोत्साहेन कर्म
करणीयं स्यात्, सा शक्तिः स चोत्साहः फलस्य चिन्तायां नष्टो भवति। परिणामतः कर्मणि न्यूनता
जायते। फलं तु कर्मण एव प्राप्स्यते, यदा कर्मणि न्यूनता
जाता तदा फलेऽपि न्यूनता भविष्यति। अतः कर्मफलाकांक्षामथवा कर्मफलाधिकारं विहाय
अहर्निशं कर्त्तव्यकर्म करणीयमेव कर्मयोगो भवति। श्रीमद्भगवद्गीतायामस्य व्याख्या
अधोलिखिता अस्ति तव अधिकारः फलेषु नास्ति अपितु कर्मस्वेव तवाधिकारः। त्वं कर्म मा
त्यज न च कर्मफलस्य हेतुर्भूः। सफलतायामसफलतायां समो भूत्वा कर्माणि कुरु यतो हि
समत्वमेव योगो भवति। अन्यच्य योगस्य परिभाषा अस्ति कुशलतापूर्वकं कर्म अपि योग एव
अस्ति। "योगः कर्मसु कौशलम्"
(3) - भक्तियोगः
मनसावाचाकर्मणा सर्वभावेन आत्मानं परमेश्वरार्पणं कृत्वा अजस्त्रं कर्त्तव्यकर्मसु निरतमेव भक्तियोगः कथ्यते। भौतिकान् सर्वान् कामान् सर्वथा विहाय श्रद्धान्वितो भूत्वा सर्वकामनीश्वरार्पणं कृत्वा, यस्तस्यैव स्तुतिप्रार्थनोपासनायां समयं यापयति सैव भक्तियोगस्य साधकः।
(4) - मन्त्रयोगः
ईश्वरस्यमुख्यं नाम 'ओउम्' अथवा गायत्र्यादीनां
मन्त्राणां जप काले यदा मन्त्रेषु मन स्थिरं भवति सैव "मन्त्रयोगः"
कथ्यते। वाचिकम्-उपांशुः मानसिकम् अजपाजपञ्चेति चतुर्विधा जपविधिः।
(5) - लययोगः
सर्वदा अजस्ररूपेण ईश्वरस्य चिन्तने
मनने-एव यदा मनः संलग्नम्भवति सैव अवस्था लययोगस्य भवति। ध्यानावस्थायां
नादानुसन्धानं कृत्वा मनो नादे-एव स्थिरीकरणमपि लययोगः कथ्यते।
(6) - हठयोगः
हठ शब्दे हकारो ठकारश्चेत्येतौ शब्दौ
योगपरम्परायां पारिभाषिकौ स्तः। हकारस्य अर्थोऽस्ति सूर्यस्वरः [नासिकाया
दक्षिणरन्ध्रेण चलन्तौ श्वासप्रश्वासौ] ठकारस्य अर्थोऽस्ति चन्द्रस्वरः [नासिकाया
वामरन्ध्रण चलन्तौ श्वासप्रश्वासौ] सूर्यचन्द्रस्वरयोः सम्मेलनं कृत्वा
सुषम्णानाड्यां प्रवाहकरणमेव हकारठकारयोर्योगो "हठयोग" इति कथ्यते।
निष्कर्षः (Conclusion)
एवम्प्रकारेण योग आध्यात्मिकमनुशासनमस्ति। योगाभ्यासेन आत्मना सह अन्तःकरणचतुष्टयसहितं शरीरस्य सामञ्जस्यं जायते। योगाभ्यासेन व्यक्तिगतचेतनायाः सामञ्जस्यं सार्वभौमिकचेतनया सह भवति। एषा सामञ्जस्य अवस्था एव मुक्तिः, मोक्षः, कैवल्यं, निर्वाणमित्यादिभिर्विविधाभिरुपाधिभिर्व्यवह्रियते।
समकालीना अनुसन्धातारः प्रमाणयन्ति यद् योगो न केवलं शारीरिकं सौष्ठवमेव सम्पादयति, अपितु विविधानि दुःसाध्यानि शारीरिकमानसिक रोगाणि निराकृत्य, रोगप्रतिरोधकक्षमताश्चर्यजनकरूपेण संवर्ध्य महदुपकरोति मानवजातेः।

टिप्पणियाँ
एक टिप्पणी भेजें