शरीरमाद्यं खलु धर्मसाधनम्: आरोग्यस्य मूलमन्त्राः

 शरीरमाद्यं खलु धर्मसाधनम्: आरोग्यस्य मूलमन्त्राः


१. प्रस्तावना (Introduction)

    शास्त्रेषु सुस्पष्टम् उद्घोषितम् अस्ति- 'शरीरमाद्यं खलु धर्मसाधनम्'। अस्य अयमर्थः यत् जीवने धर्मः, अर्थः, कामः, मोक्षः च इति चतुर्विधपुरुषार्थानां प्राप्तये शरीरमेव प्रमुखं साधनम् अस्ति। यदि शरीरं रुग्णम्, शिथिलम् अथवा अस्वस्थं भवति, तर्हि मनुष्यः स्वस्य लक्ष्याणि प्राप्तुं न शक्नोति। अतः अस्मिन् संसारे स्वास्थ्यमेव सर्वश्रेष्ठं धनम् इति कथ्यते। विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति।

२. दिनचर्यायाः शुभारम्भः (Start of Daily Routine)

शरीरस्य स्वास्थ्यायाधोलिखिताः नियमाः अवश्यं पालनीयाः।

  • ब्राह्मे मुहूर्ते जागरणम्: सर्वतः प्रथमं स्वस्थेन मनुष्येण ब्राह्मे मुहूर्ते (सूर्योदयात् १.५ होरा पूर्वम्) उत्थातव्यम्। अस्मिन् समये वातावरणं प्रदूषणरहितं भवति तथा च ओजोन-वायोः प्राचुर्यं भवति।

  • उषःपानम्: शय्यात्यागानन्तरं विना मुखप्रक्षालनं ताम्रपात्रे स्थितं जलं पातव्यम्। अनेन उदररोगाः नश्यन्ति।

  • दन्तधावनं मुखशुद्धिः च: ततः शौचादिकं निवृत्तं कृत्वा नियमितरूपेण दन्तधावनेन कूर्चिकया वा दन्तशुद्धिः कर्त्तव्या। निम्बकाष्ठेन दन्तधावनं अति उत्तमं मन्यते। प्रत्येकं दन्तं क्रमशः निर्मलं कृत्वा जलेन मुखं धावनीयम्। एवं मुखस्य सर्वं मलमपनीयते मुखरोगाश्च न भवन्ति। जिह्वा-निर्लेखनेन जिह्वायाः मलः अपि दूरीकरणीयः।

३. नेत्रयोः त्वाचायाः च रक्षणम् (Eye and Skin Care)

  • नेत्रसुरक्षा: शीतलेन जलेन वदनप्रक्षालनं नेत्रयोश्च शुद्धिः हितकरी भवति। यः नरः प्रतिदिनं मुखे जलं पूरयित्वा नेत्रयोः शीतलेन जलेन सिञ्चति, तस्य दृष्टिः क्षीणा न भवति।

  • अभ्यङ्गस्नानम् (Oil Massage): ततः सर्वस्मिन् शरीरे तैलमर्दनं विधेयम्। विशेषतः सार्षपतैलेन वा तिलतैलेन मर्तदनं हितकरम्। तैलमर्दनेन अङ्गानि बलिष्ठानि जायन्ते, वातरोगाः नश्यन्ति, त्वचा कान्तिमयी भवति, सौन्दर्यं च वर्धते।


For more information visit sanskrit medium 
YouTube  - CLICK HERE
Telegram - CLICK HERE
whatsapp - click here


४. व्यायामस्य महत्त्वम् (Importance of Exercise)

शरीररक्षणे आहारस्य यावत् महत्त्वं वर्तते, तावदेव व्यायामस्यापि अस्ति।

  • व्यायामः: तैलमर्दनानन्तरं व्यायामः कर्त्तव्यः। व्यायामेन सम्यक् रक्तसञ्चारः, पेशीनां पुष्टिः, क्षुधावृद्धिः, शरीरे च स्फूर्तिः जायते।

  • योगासनं प्राणायामश्च: अद्यत्वे योगासनानि अपि परमावश्यकानि। 'सूर्यनमस्कारः' सर्वाङ्गव्यायामः अस्ति। प्राणायामेन फुफ्फुसाः सबलाः भवन्ति तथा च मनः एकाग्रं भवति। ये जनाः प्रतिदिनं व्यायामं कुर्वन्ति, ते वृद्धावस्थायामपि यूवानः इव दृश्यन्ते।

५. स्नानं वस्त्रधारणं च (Bath and Clothing)

    व्यायामानन्तरं किञ्चित्कालं स्थित्वा, शरीरस्य स्वेदं शुष्कीकृत्य स्नानमपि विधेयम्। स्नानं प्रायः शीतलेन वारिणा कर्त्तव्यम्; परन्तु शिथिले शरीरे अथवा शैत्यकाले कदुष्णेन (गुनगुने) वारिणा स्नानं हितकरं भवति। स्नानेन न केवलं शरीरं शुद्ध्यति अपितु मनः अपि प्रफुल्लितं भवति। स्नानं कृत्वा स्वच्छान्येव वस्त्राणि धारणीयानि, न तु मलिनानि। मलिनवस्त्राणां धारणमेतादृशमेव भवति यथा स्नात्वा पङ्कलेपः कृतः स्यात्। ऋत अनुसारं वस्त्रधारणं स्वास्थ्यरक्षकं भवति।

६. आहार-विचारः (Dietary Habits)

स्वास्थ्यरक्षार्थ स्वाहारेऽपि अत्यधिकं ध्यानं देयम्। शास्त्रेषु उक्तम्- "मिताहारी स्यात्"

  • समयपालनम्: यः यथासमयं भक्षयति, परिमितं च, सः कदापि जठररोगेण पीडितो न भवति।

  • सात्त्विकभोजनम्: भोजनं सात्त्विकं, शुद्धं, पुष्टिकरं च स्यात्। फलानि, शाकानि, दुग्धं च आहारे अवश्यं भवेयुः। तच्च शान्तमनसा, प्रसन्नचित्तेन भोक्तव्यम्।

  • जलं जीवनम्: भोजनान्ते विषमं वारि। भोजनस्य मध्ये अल्पं जलं पिबेत्, किन्तु भोजनान्ते तत्क्षणमेव जलं न पातव्यम्। दिनभरे पर्याप्तं जलं सेवनं शरीरस्य विषाक्तपदार्थान् (Toxins) निष्कासयति।

For more information visit sanskrit medium 
YouTube  - CLICK HERE
Telegram - CLICK HERE
whatsapp - click here

७. विश्रामः निद्रा च (Rest and Sleep)

    यथा स्वच्छता, व्यायामः, भोजनं च स्वास्थाय उपयुक्तानि, तथैव विश्रामस्यापि महत्त्वमस्ति। अहोरात्रं कार्यं कृत्वा शरीरं श्रान्तं भवति।

  • विश्रामस्य आवश्यकता: ऋते विश्रामात् कश्चिदपि स्वस्थः स्थातुं न शक्नोति। विश्रामेण श्रमोऽपनीयते, तस्मात् विश्रामः स्वास्थ्याय परमावश्यकः।

  • विद्यार्थिभ्यः उपदेशः: ये परीक्षा दिनेषु निरन्तरं पठन्ति, नच विश्राम्यन्ति, ते विक्षिप्ताः जायन्ते, सर्वं पठितं च विस्मरन्ति। एवं च रुग्णीभूय परीक्षायामप्यनुत्तीर्णाः जायन्ते। तस्माद्विश्रामस्यापि महत्यावश्यकता वर्त्तते। रात्रौ ६-८ होरापर्यन्तं गाढनिद्रा आवश्यकी।


For more information visit sanskrit medium 
YouTube  - CLICK HERE
Telegram - CLICK HERE
whatsapp - click here

८. उपसंहारः (Conclusion)

    अन्ते, इदं स्मर्तव्यं यत् आलस्यं विश्रामस्य पर्यायो नास्ति। आलस्यं तु मनुष्याणां शरीरस्थो महान् रिपुः। आलस्यं तु कर्मण्यनिच्छा भवति, विश्रामश्च कर्मणः करणाय नवशक्त्याः अर्जन-साधनम् भवति। तस्मान्मनुष्येणालसेन न भाव्यम्, परमावश्यको विश्रामः कर्त्तव्यः। अतः वयं सङ्कल्पं कुर्याम यत् प्रतिदिनं नियमानां पालनं करिष्यामः। "सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः" इति ध्येयवाक्यं सार्थकं कुर्याम।


For more information visit sanskrit medium 
YouTube  - CLICK HERE
Telegram - CLICK HERE
whatsapp - click here

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Indian Army Religious Teacher (RT JCO) 2027: Eligibility for Sanskrit Students

OAV Khordha Recruitment 2026: TGT Sanskrit & Other Teaching Posts | OAV ଖୋର୍ଦ୍ଧା ନିଯୁକ୍ତି ୨୦୨୬

Language Skills (part - 3) Reading Skills