शूद्रकः
शूद्रकः शूद्रकः (Shudraka) नाट्यकारः आसीत्। अस्य जन्मादि विषये सप्रमाणयुक्तयः न लब्धाः । किन्तु सः त्रीणि नाटकानि अरचयत्। ते मृच्छकटिकम् , वीणावासवदत्ता , पद्मप्रभृत्तकम् (भाणम्) च। मृच्छकटिकनाटकस्य प्रस्तावनाऽधारेण वक्तव्ये अयम् श्लोकः दृश्यते, यथा- द्विरदेन्द्रगतिः चकोरनेत्रः, परिपीर्णेन्दुमुखः सुविग्रहश्च । द्विजमुख्यतमः कविर्बभूव, प्रथितः शूद्रक इत्यगाधसत्वः ॥ अत्र द्विजमुख्यतमः इति पदस्य क्षत्रजातिश्रेष्ठः इति व्याख्यायाम् निरुक्तम् । शिवप्रसादेन अस्मै दृष्टिर्लब्धा, तथा च अयम् अश्वमेधयज्ञं चकार, दशादिकैशतवर्षम् उषित्वा स्वपुत्राय राज्यं दत्त्वा स्वर्गलोकं जगाम। "ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य । राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ।।" अस्यैव नाटकस्य प्रस्तावनायाः तृतीयश्लोके अयं ‘द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्तवः इति दत्तमस्ति। पुनः पञ्चमश्लोके ‘क्षितिपालः किल शूद्रको बभूव’ इति पठ्यते शूद्रक इति...