संदेश

शूद्रकः

शूद्रकः शूद्रकः  (Shudraka) नाट्यकारः आसीत्। अस्य जन्मादि विषये सप्रमाणयुक्तयः न लब्धाः । किन्तु सः त्रीणि नाटकानि अरचयत्। ते  मृच्छकटिकम् ,  वीणावासवदत्ता ,  पद्मप्रभृत्तकम्  (भाणम्) च। मृच्छकटिकनाटकस्य प्रस्तावनाऽधारेण वक्तव्ये अयम् श्लोकः दृश्यते, यथा- द्विरदेन्द्रगतिः चकोरनेत्रः, परिपीर्णेन्दुमुखः सुविग्रहश्च । द्विजमुख्यतमः कविर्बभूव, प्रथितः शूद्रक इत्यगाधसत्वः ॥ अत्र द्विजमुख्यतमः इति पदस्य क्षत्रजातिश्रेष्ठः इति व्याख्यायाम् निरुक्तम् । शिवप्रसादेन अस्मै दृष्टिर्लब्धा, तथा च अयम् अश्वमेधयज्ञं चकार, दशादिकैशतवर्षम् उषित्वा स्वपुत्राय राज्यं दत्त्वा स्वर्गलोकं जगाम। "ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य । राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ।।" अस्यैव नाटकस्य प्रस्तावनायाः तृतीयश्लोके अयं ‘द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्तवः इति दत्तमस्ति। पुनः पञ्चमश्लोके ‘क्षितिपालः किल शूद्रको बभूव’ इति पठ्यते शूद्रक इति...

भट्टनारायणः

भट्टनारायणः           'वेणीसंहार'नामकस्य प्रसिद्धस्य नाटकस्य रचयिता  भट्ट्नारायणः   (Bhattanaraya) ।           एषः अष्टमे शतके आसीत् इति पण्डिताः अभिप्रयन्ति ।           एषः कान्यकुब्जप्रदेशे जातः इत्यत्र तु न कस्यापि विमतिः । स्वीयेन एकमात्रेण वेणीसंहारनाम्ना नाटकेन भट्टनारायणः संस्कृतसाहित्येऽतितरां प्रख्यातः ।  किंवदन्ती प्रसिध्दा यद् गौडदेशशासकेन आदिशूरेण ब्राह्मणधर्म्मुत्रेतुं कान्यकुब्जदेशादानीय निवासितेषु ब्राह्मणेष्वयमत्येक इति । आदिशूरः पालवंशोत्थानतः पूर्ववर्त्ती राजेति तस्य समयः सप्तमशताब्द्या उत्तरार्धमास्थातुं युक्तम् । दशमशतकोत्पन्नओ धनिको वेणीसंहारमुध्दरति, आनन्दवर्धनोऽपि ध्वन्यालोके 'कर्त्ता द्यूतच्छलानामित्यादि पद्यमुद्धृतवान्, वामनोऽपि महताऽऽदरेण वेणीसंहारगतं पद्यम्- 'पतितं वेत्स्यसि क्षितौ’ इति समुदधृत्य मीमांसा चक्रे । एतत्सर्वमालोच्यन्तो विद्वांसो भट्टनारायणस्य समयमष्टशतकमध्यभाग निर्णयन्ति । धर्मकीर्त्तिकृताया रुपाक्तारस्य नीवीनामिकायाष्टीकाया हस्तलिखितप्रतेरेकस्या अव...

महाभारतम्

महाभारतम्              म हाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्म-अर्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव। महाभारतस्य नामकरणञ्च --     महाभारतग्रन्थः त्रिभिः सवंत्सरैः विरचितं च -     त्रिभिर्वर्षैः सदोत्थाय कृष्णद्वैपायनो मुनिः।     महाभारतमाख्यानं कृतवानिदमद्भुतम्॥     इदं प्रायः सर्वे भारतीया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिद्धम् । सूक्ष्मेक्षिकयाऽवलोकनेन ज्ञायते यत् - महाभारतस्य प्रगते चरणत्रयं विद्यते। - प्रथमे चरणे - जयनामक...

श्रीराम नवमी की प्रामाणिक और पौराणिक सत्य (संस्कृत में)

चित्र
श्रीराम नवमी   प्रामाणिक और पौराणिक सत्य (संस्कृत में)   श्री रामः   विष्णोः   सप्तमः अवतारः ।   "विष्णोरर्धं महाभागम्”   इत्येव उल्लेखः दृश्यते ।   रावणः   देवैः मरणम् न भविष्यति   इति वरं प्राप्तवान् आसीत् । तस्य संहारार्थं महाविष्णुः एव मनुष्यरूपेण जन्म प्राप्नोत् । सः एव श्रीरामचन्द्रः । चैत्रमासस्य शुक्लपक्षस्य नवम्यां तिथौ श्रीरामस्य जन्म अभवत् । तद्दिनमेव “श्रीरामनवमी” इति आचर्यते । “चैत्रे नवम्यां प्राक् पक्षे दिवा पुण्ये पुनर्वसौ । उदये गुरुगौरांश्चोः स्वोच्चस्थे ग्रहपञ्चके ॥ मेषं पूषणि सम्प्राप्ते लग्ने कर्कटकाह्वये । आविरसीत्सकलया कौसल्यायां परः पुमान् ॥ “  (निर्णयसिन्धुः)       नवमीतिथिना सह पुनर्वसुनक्षत्रम् अपि अस्ति चेत् तद्दिनम् अत्यन्तं प्रशस्तम् इति उच्यते ।  “ पुनर्वस्वर्क्षसंयुक्ता सा तिथिः सर्वकामदा”  (अगस्त्यसंहिता – ८-२८) । रामनवमी सर्वैरपि आचरणिया एव । यः नाचरति सः घोरे कुम्भीपाकनरके पच्यते इति वदन्ति शास्त्रवाक्यानि । “सर्वेषामप्ययं धर्मः भुक्तिमुक्त्योकसाधकः । यस्तु रामनवम्यान्तु भुङ्क्त...

मेघदूतस्य महत्त्वपूर्णाः प्रश्नाः उत्तराणि च

चित्र
 मेघदूतस्य महत्त्वपूर्णाः प्रश्नाः उत्तराणि च मेघदूतस्य  मङ्गलाचरण                            कश्चित् कान्ता विरहगुरुणा स्वाधिकारात्प्रमत्तः   शापेनास्तङ्गमितमहिमा  वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनक-तनया -स्नान-पुण्योदकेषु  स्निग्धच्छाया-तरुषु वसतिं रामगिर्याश्रमेष ।।1।।                                                                           मेघदूते कति श्लोकाः सन्ति ? --- ११५ पूर्वमेघः ६३, उत्तरमेघः ५२ मेधदूते यक्षस्य वनवासस्य एकवर्षस्य दण्डः केन दत्तः ?    कुबेर मेघदूतस्य मते यक्षः कदा मेघान् पश्यति ? आषादमासस्य प्रथमदिवसः यक्षः कथं मेघं पूजयति ?  कुटीरपुष्पेभ्यः कति तत्त्वैः निर्मितम् अस्ति ?  -- 4 तत्त्वानि  (अग्निः धूमः जलं वायुः) मेघदूते यक्षस्य नाम किम् ? -- हेम्मालि म...